SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) तस्मिन्विन्यस्तचितैव चक्रे स्नानादिकाः क्रियाः ॥५१॥ सायं भुक्तवते तस्मै सा ततो मदलेखयां । हारं कमपि नीहारगौराकारमदापयत् ॥ ५२ ॥ कादम्बर्यास्ततः कान्तिगुणगौरवचिन्तया । अन्यतन्त्रात्मनस्तावदहःशेषः समत्यगात् ॥ ५३ ॥ तयोः सन्नद्धपञ्चेषुव्यथयोर्बद्धरागयोः। कथं कथंचित्सा रात्रिः कालरात्रिरिवागमत् ॥ ५४ ॥ ततः प्रातः स्वशिविरं कृच्छ्रादनुमतस्तया । केयूरकमुखैः कैश्चिद्गन्धर्वैरन्वितो ययौ ॥ ५५ ॥ ददर्शाच्छोदतीरस्थं स गच्छन्सैन्यमात्मनः । आगतं निजमध्वानमवेत्याश्वखुराङ्कितम् ।। ५६ ॥ सर्वैः प्रत्युद्गतस्तत्र सवैशम्पायनादिभिः । विनिवर्त्य च गन्धर्वान्विवेश पटमण्डपम् ॥ ॥ ५७ ॥ स पत्रलेखया पृष्टः सायं सवयसः पुरः । आरभ्य किन्नरद्वन्द्वमखिलं वृत्तमब्रवीत् ॥ ५८ ॥ महाश्वेतामयं तावन्मनो मारादितं वहन् । स वैशम्पायनस्तस्य सखाऽन्तः समतप्यत ॥ ५९॥ अथापरेधुरागत्य विभुं केयूरकोऽब्रवीत् । दिदृक्षते पुनर्देव ! भवन्तं भर्तृदारिका ॥ ६ ॥ सर्वथा तत्र भवता सा परिष्क्रियतां स्थली । इत्याहूतो ययौ सोऽथ तुरगी पत्रलेखया ।। ६१ ॥ तत्र कन्यागृहं प्राप्य तामनङ्गज्वरातुराम् । शयानां पुष्पशयने ददर्श हिमवेश्मनि ॥ ६२ ॥ विधीयमानैर्बहुधा सखीभिस्तापशान्तये । अपि शीतोपकरणैरभिटद्धस्मरवराम् ॥ ६७ ॥ कल्पितोचितसत्कारस्तल्पादुस्थितया तया । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy