SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५ ) तथैव तस्थौ सवीडं साशंसेय॑ च सस्मितम् ॥३८॥ अनादृत्य सखीवाचमनालप्य च सारिकाम् । अविज्ञाय च कर्तव्यमनाज्ञाप्य च चेटिकाः ॥ ३९ ॥ विधाय पार्श्वस्थितया बीटी चेटिकयाऽपिताम् । प्रसारितेन हस्तेन स्पृशन्त्यपि न गृह्णती ॥ ४० ॥ मोहेनाचान्तचित्तेव मुषितेव च मूर्च्छया। लीडेव चानुरागेण लुण्टितेव स्मराग्निना ॥ ४१ ॥ वचसा हंसदुहितुः मानिना पूर्वमेव सा। ततश्च प्रादाद्धस्तेन तस्मै ताम्बूलबीटिकाम् ॥ ४२ ॥ तत्र कन्यागृहोपान्तवर्तिन्युद्यानपर्वते । अकरोदस्य वसतिमात्मनः केलिमन्दिरे ॥ ४३ ॥ ततश्चित्ररथं तातं मातरं मदिरामपि। द्रष्टुकामा ययौ तावन्महाश्वेता गृहं तयोः ॥ ४४ ॥ तावत्कादम्बरी तस्मिन्क्षणे खिन्ना वियोगतः । तं द्रष्टुं सौधमारोहत्सममाप्तसखीजनैः ॥ ४५ ॥ तत्रस्था केलिशैलस्थं तमपश्यत्तलोदरी। स च तां शश्वदुत्कूलविस्मयोत्फुल्लया दृशा ॥ ४६ ।। परस्परे तौ पश्यन्तौ परस्परसविस्मयौ । विधेविधानचातुर्य-समं चमदकुर्वताम् ॥ ४७ ॥ साभिलाषैः सप्रणयैः साभिप्रायैश्च सत्रपैः । अथावोचतुरन्योन्यमाकारन्ताववेक्षितैः ॥४८॥ सर्वमन्तर्गतं वृत्तं तत्तद्वयाकुर्वती तयोः । दृष्टिमध्ये ययौ दूत्यं यातायातं वितन्वती ॥ ४९ ।। तावीक्ष्यमाणावन्योन्यं तथैव लिखिताविध । तिष्ठन्तौ दिनशेषं तावतीतं नावगच्छताम् ॥ ५० ॥ अथावरुह्य सा सौधान्महाश्वेतानुरोधिनी । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy