SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) बन्दो मरुन्नतः पौष्पं सर्गेऽस्याः साधनानि किम् ॥ २५ ॥ कचिन्नभः कचिच्चन्द्रः कचिदब्जं कचित्सरः । अस्याः सर्गविधौ नूनमपरः स्यात्सरोजभूः ॥ २६ ॥ संमोहनी मन्मथस्य शक्ति: किंवा शरीरिणी । इन्द्रियाकर्षणे पुंसामियं किमधिदेवता ॥ २७ ॥ इति संचिन्तयन्नेनां वीक्षमाणः स विस्मयी । निमेषवत्तामस कुन्निनिन्द निजनेत्रयोः ॥ २८ ॥ सा चाप्रतिमरूपं तं दृष्ट्रा पुंसृष्टिभूषणम् । बभूव विस्मयवती विवशा च मनोभुवा ॥ २९ ॥ चमत्कुर्वाणयोरेवमितरेतरमीक्षितैः । बुद्ध इव पुष्पेषुः प्रहृष्यन्नुदभूत्तयोः ॥ ३० ॥ ततः सत्वरमुत्थाय महाश्वेतां प्रणम्य सा । परिष्वज्य च पर्यङ्कमध्यारोपयदात्मनः ॥ ३१ ॥ कृतातिथ्यः कृती सोऽपि तत्सख्या मदलेखया । तस्यै स्नेहाञ्जलिं चक्रे सा च नुन्नास्य तेजसा ॥ ३२ ॥ तत्पर्यङ्कशिरोभागे स्थापितं रत्नविष्टरं । निर्दिशन्ती नृपसुतं महाश्वेता जगाद ताम् ॥ ३३ ॥ अभिद्रे ! कुमारोऽयमत्रन्तीभर्त्तुरात्मजः । चन्द्रापीडः स्वयं नाम्ना सरलश्चन्द्रमा इव ॥ ३४ ॥ विजये हरितामत्र विचरन्मृगयां वने । पुण्यैः पराकृतैः मान्मम पूर्वेद्युराश्रमम् ॥ २५ ॥ तव संदर्शनाया पार्थितः प्रणयान्मया । ममानुज्ञाय वचनं तवालङ्कुरुते सभाम् ॥ ३६ ॥ आराधनीयो यस्माकमखिलैरप्ययं गुणैः । भजन्ति भवनं दिष्ट्या पुरुषाः पुनरीदृशः ||३७|| इत्थं वदन्त्यां सा तस्यामेकान्ताभ्युदितस्पृहा । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy