SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३ ) कल्हारगर्भ करीबन्धनं हारि विभ्रतीम् । वाणैः पूर्णमिवानङ्गतूणीरं शोणितारुणैः ॥ १३ ॥ मुखलावण्यनिः स्यन्दमुक्तानासाविभूषणम् । कपोलकान्तिविफलमणिताडङ्कभूषणम् ॥ १४ ॥ समयौवनरूपाभिः सखीभिरभितोवृताम् । परितां पुष्पवल्लीभिः पारिजातलतामिव ।। १५ ।। के पूरकं पुरोयतं कृतकौतूहलं मुहुः । पृच्छन्तीमात्मनः प्रेमगर्भमेव मिथः कथाम् ॥ १६ ॥ विद्युन्मध्यादिवोदीर्णी विद्रुमादिव निर्मिताम् । आविर्भूतामिवाम्भोजादरुणादिव चोत्थिताम् ॥ १७ ॥ अङ्गीकृताङ्गनारूपां शृङ्गारस्येव देवताम् । ददर्श दीर्घसौभाग्यां देवीं चित्ररथात्मजाम् ॥ १८ ॥ ॥ कुलकम् ॥ सर्गाभ्यासफलं धातुः साम्राज्यं शम्बरद्विषः । सौन्दर्यमयमेतस्या वपुर्वीक्ष्य ननन्द सः ॥ १९ ॥ चक्षुरञ्जलिना शश्वत्पिवन्कादम्बरीं पुनः । उवाह मोहमुत्कूलरागचिन्तामधत्त सः ॥ २० ॥ अहो ! सुकृतमस्माकमासीनाजन्मनः फलम् । अदृष्टपूर्वा यदियमङ्गनासृष्टिरक्ष्यते ॥ २१ ॥ श्रियः सृष्टिकृताभ्यास विधिर्नूनं व्यधादिमाम् । न चेदेतादृशं तस्य कथं जायेत कौशलम् ॥ २२ ॥ अङ्गैराश्चर्यमधुरैरस्यास्तुलयितुं मया । यदि यत्किञ्चिदुद्येत तदेव न तु पातकम् || २३ || इदमेतादृशं गात्रं यदि जायेत योषिताम् । शङ्के पङ्केरुहादीनां युक्ता स्यादुपमेयता ॥ २४ ॥ कर्पूरममलं सान्द्रममृतं कान्तिरैन्दवी । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy