________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २२ ) परिषदमवलोक्य कन्यकानामपर इवाभवदन्यतन्त्रभावः१२९ इति मण्डनकादम्बरीदर्पणे द्वितीयः परिच्छदः । तत्र दुग्धाब्धिविमलं मुक्तापर्यङ्कमास्थिताम् । श्रियं विष्णोरिवान्यत्र शेषपर्यङ्कमीयुषीम् ॥ १॥ पल्लवारुणया पादच्छायया सविधस्थलीम् । पादपीठं वितन्वानां परितः पद्मिनीमयम् ॥ २ ॥ पुष्पायुधपुरद्वारं मणितोरणमङ्गलम् । कदलीकाण्डचारुभ्यामुरुभ्यामुपचिन्वतीम् ॥ ३ ॥ जघनेन जितानङ्गपर्यङ्कपरमश्रिया । स्वलावण्यसुधाम्भोधेः पुष्णन्तीं पुलिनश्रियम् ॥ ४॥ अत्युन्नतस्तनोद्वाहादस्तीत्युह्यमचाक्षुषम् । अनङ्गस्याङ्गमपरं वहन्तीं मध्यमद्भुतम् ॥ ५ ॥ बिभ्राणामभ्रतटिनीविपुलाजमविभ्रमम् । नाभीमनङ्गराजस्य दधानां गृहदीर्घिकाम् ॥ ६ ॥ कुचकुम्भस्य तारुण्यकुञ्जरस्येव शुण्डया । कन्दर्पखड्गलतया रोचिष्णुं रोमलेखया ॥७॥ कुचेन पद्मकोशेन कोकद्वन्द्वस्पृहाकृता । प्रदर्शयन्ती प्रत्यक्षं पद्मिनीभावमात्मनः ॥ ८ ॥ अभिपूर्णश्रिया नित्यमनिमीलनहारिणा । आननेन वितन्वानामरतिं चन्द्रपद्मयोः ॥९॥ विद्रुमद्रोहजनुषा बिम्बीफलविडम्बिना । रम्येणाधररागेण रञ्जयन्तीमिव स्मरम् ॥ १० ॥ मुक्ताविद्रुमयोरैक्यपिशुनेन प्रसर्पता। मन्दस्मितेन मधुरमालपन्तीमिवालिभिः ॥ ११ ॥ नेत्रेण स्निग्धदीर्पण नीलोत्पलनिभत्विषा । मदनस्यापि मदनं सृजन्तीमिव चेतसि ॥१२॥
For Private and Personal Use Only