SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) प्रयतिष्ये पुनर्द्रष्टुं प्राणैः कण्ठगतैरपि ॥ १२० ॥ इत्थमन्योन्यवचनींता तत्र निशाऽमुना । अश्रावि च बलं प्रातरथो दशपुरागतम् ॥ १२१ ।। कृताश्वासः कृती तावत्केयूरकमुवाच तम् । दर्शनं भविता देव्या दैवादासन्नमेव मे ॥ १२२ ॥ सपत्रलेखस्त्वं गत्वा देवीमाश्वासय द्रुतम् । इत्यादिश्यावसाहाय्यं मेघनादं व्यधात्तयोः ॥१२३।। प्रस्थाप्य तान्प्रतिययौ प्रत्यूषे सैन्यमात्मनः । तत्र केनापि न ज्ञातःसुहृदंद्रष्टुमुत्सुकः ॥ १२४ ॥ स वैशम्पायनगृहं पृच्छन्प्रतिपदं जनान् । क्व वैशम्पायनाति केनाप्याक्षिप्तवागभूत् ॥ १२५ ।। हा क्व यात प्राप्तशोको जज्ञे (स ) स्वसैनिकैः । वैशम्पायनवृत्तान्तं विचित्रं वक्तुमक्षमः ॥ १२६ ॥ नत्वा ततो नरेन्द्रं तं पृच्छन्तं सुहृदं प्रियम् । शशंसुरेवं सत्रासं सशोकं च सविस्मयम् ॥ १२७ ।। देव ! दैवान्न ते सख्युन किश्चित्कुशलेतरम् । मा कृथा मनसि क्षोभं वदामस्तस्य चेष्टितम् ॥ १२८ ।। स वैशम्पायनस्तत्र भवतो निर्गमात्परम् । सकौतुकं सरस्तीरे बभ्राम विरहार्तवत् ॥ १२९ ॥ तत्र नष्टमिवान्विष्यन्स्मरन्निव च विस्मृतम् । भ्रान्त्वा सुचिरमध्यास्त क्यचित्तीरलतागृहम् ॥ १३० ।। स्थितं चिराय तत्रैवतव ब्रम सविस्मयाः। इतो गन्तव्यमुत्तिष्ठ सख्युराज्ञां विधत्स्वते ॥ १३१ ॥ इत्थमुक्तो जगादास्मान्यूयमद्यैव गच्छत । चलितु नैव शक्नोमि पदं चास्मात्प्रदेशतः ॥ १३२ ॥ को हेतुरिति नो जाने सख्यैव शतधा शपे। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy