________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(११) हेमकूटतटे कृत्वा हेमकुटाभिधं पुरम् । देवो यस्मै ददाविन्द्रः स्वयं स्वर्गमिवापरम् ।। १२६ ।। दृष्ट्वा दिवस्पतेः सख्युर्मानसाख्यं महासरः । वितेने तत्पतिद्वन्द्वि येनाच्छोदमिदं सरः॥ १२७ ।। तस्य हंस इति ख्यातो भ्राता भ्राजिष्णुविक्रमः। यौवराज्याधिपत्यस्थो ज्ञायते ज्ञातिवंशजः ॥ १२८ ।। तस्य हंसस्य गौरीति चन्द्रपादसमुद्भवा । बभूव महिषी मान्या शचीव शतयज्वनः ॥ १२९ ॥ तस्याहमभवं कन्या गौर्यामर्यमतेजसः । महता श्वेतवर्णेन महाश्वेतेति नाम मे ॥ १३० ॥ पितृभ्यां पुत्रहीनाभ्यां पुत्र इत्येव मानिता । अभूवमथ कालेन शनैरुन्मुक्तशैशवा ॥ १३१ ॥ ततः प्रादुरभूत्कालो मधुर्वनविभूषणम् । कूलंकषी कृतानङ्गकोलाहलकुतूहलः ॥ १३२ ॥ उद्भिन्नस्तबकोदारस्तनीनामुज्ज्वलश्रियाम् । लतानामासललितः प्रथमावविभ्रमः ॥ १३३ ॥ अकारि नूनमानङ्गमध्यापयितुमागमम् । झङ्कारछद्मना भृङ्गरोंकारध्वनिरुच्चकैः ॥ १३४ ॥ मनोभवमहाराजमणिकाहलपूर्वहः । पञ्चमः परपुष्टानां कञ्चकारणकार्मुकम् ? ॥ १३५ ॥ अविकुर्वदनङ्गेन वस्तुनासीन्महीतले। . दधुर्येन दिने तत्र तरवोऽपि गुणान्तरम् ।। १३६ ।। सपल्लवैः सप्रसवैः सामोदैः सालिकोकिलैः । सहकारैः कृतानङ्गसहकारैर्बभूविरे ॥ १३७ ॥ क्वचिन्मुखरकोकिलं वचनमाद्यदिन्दिरम् । क्वचित्सुरभिमारुतं क्वचनपुष्पितानोकहम् ॥१३८॥
For Private and Personal Use Only