________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वपुर्महाद्भुतमिदं वयो मदनवर्द्धनम् । किं वा कारणमेतस्यास्तपश्चरणसाहसे ॥ ११३ ॥ अनुरूपमदृष्ट्वैकमथवा वरमात्मनः तपश्चरति तं लब्धं शङ्के चन्दार्द्धशेखरात् ॥११४॥ विचिन्त्यैवं विधिबलं निन्दन्नेव नृपात्मजः । गीतान्ते किमपि प्रष्टकामः क्षणमुपाविशत ॥११५॥ ततः सा नियमान्ते तं स्निह्यन्ती स्निग्धया दृशा। स्वागतादिवचःपूर्वमनयन्निजमाश्रमम् ॥ ११६ ॥ तत्र सा फलमूलाद्यैस्तस्यातिथ्यं यथाविधि । कृत्वा तेन कृतानुज्ञा तच्छेषं समभुङ्ग च ॥ ११७ ॥ कुतोऽसि क्व नु गन्तासि कुत्रत्योऽसि च कोऽसि च । वद भद्रेति पृच्छन्त्यै सर्व तस्यै ततोऽब्रवीत् ॥११८॥ श्रुत्वा शुभनिधेरस्य कुलं नाम च वैभवम् । दृष्ट्वा रूपं च शीलं च दधौ मनसि विस्मयम् ॥११९।। ततो निगदितात्मीयवृत्तान्तो नृपनन्दनः । तस्याः पप्रच्छ बालायाः तपश्चरणकारणम् ॥ १२० ॥ सा तेन पृष्टा वज्रेण ताडितेवाश्रुलोचना । दीर्घमुष्णं च निःश्वस्य दधौ कामपि दुईशाम् ॥१२१॥ किं मया कृतमित्यन्तःखिन्नेनाश्वासितामुना। वक्तुमारभतात्मीयं वृत्तमाजन्मसम्भवम् ॥ १२२ ॥ भद्र ? पापीयसी साहं वक्ष्ये किंवात्र मङ्गलम् । तथापि तव वाञ्छां चेत्को दोषः शृणु कथ्यते ॥१२३।। अस्ति राजा चित्ररथो मित्रभूतो बिडौजसः राजा गन्धर्वलोकस्य सर्वस्यापि धुरन्धरः ॥ १२४ ॥ चक्रे चैत्ररयं नाम नन्दनादपि नन्दनम् । कैलासमेखलायां यः कमप्याराममद्भुतम् ॥ १२५ ॥
For Private and Personal Use Only