SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७) ऐन्द्री पूर्वमथागस्त्यभूषणीं वारुणी ततः । अनन्तरमुदिची च स जगाम शनैर्दिशः ॥ ७४ ॥ चतुर्भिरङ्गैर्हरितश्च चतस्रोऽपि विजित्य सः । चतुराननवयेन चतुरो यशसाऽभवत् ॥ ७५ ।। चतुर्भिर्वत्सरैः सर्वा स विजित्यैवमुर्वरीम् । वास हैमजडं भेजे शूरः स्वर्णपुराभिधम् ॥ ७६ ॥ तत्र जित्वा रियून्सर्वान्सुचिराध्वश्रमादितम् । बलं विश्रामयामास कश्चित्कालमुदारधीः ॥ ७७ ॥ तत. कदाचिन्मृगयां तत्राद्रेस्तटकानने । आतन्वानोऽयमद्राक्षीदद्भुतं किन्नरद्वयम् ॥ ७८ ॥ वपुषा मनुषाकारं मुखेन तुरगाति । तद्दष्टवा हृदयं तस्य बभूवोदितविस्मयम् ॥ ७९ ॥ तद्ग्रहीतुमनास्तावत्कुमारः कुतुकावेहम् । विमुक्तकुशयेवाश्चवेगादूरमधावयत् ।। ८० ॥ तथा स तरसा वाजी ययावुर्घोल्लसत्सटः । यथा न याति पुरतो मनश्चास्य महोद्यमम् ।। ८१ ॥ महत्या वाञ्छयाविष्टो वाजिना वायुरंहसा । अत्यवाहयदानीतः पन्थानं पञ्चयोजनम् ॥ ८२ ॥ इदं गृहीतमित्येव तस्यानुद्रवतः पुरः । अद्रेः शिखरमत्युच्चमश्वोऽगम्यमवाप तत् ॥ ८३॥ स विकृष्य कुशां तावद्वारयन्सत्वरं हयम् । करेणास्फालयन्कण्ठे विहस्यैवमचिन्तयत् ॥ ८४ ॥ अकस्मादागतमियमहो मदविवेकिता। महद्रमिदं वर्त्म वनं मानुषवजितम् ॥ ८५ ॥ किमस्मिन्कृतवानस्मि कौतुकं किन्नरद्वये । गृहीतेनागृहीतेन किं वानेन प्रयोजनम् ॥ ८६ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy