SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६ ) तमश्ववर्यमाश्वर्यवपुषं वायुरंहसम् । समीक्ष्य चन्द्रापीडो अहो ! न भविता सोऽयमश्वजातिसमुद्भवः । देवो यः कश्विदेव स्याच्छापात्तुरगतां गतः ।। ६२ ॥ सविस्मयमचिन्तयत् ॥ ६१ ॥ अमुमत्यद्भुताकारमदत्वा नूनमम्बुधिः । उचैःश्रवसमुत्पाद्य वृत्रारार्ति व्यलोभयत् ॥ ६३ ॥ इत्येवं चिन्तयन्नत्वा तमारुह्य तरस्विनम् । पितुः पार्श्व ययुः पाकहतेव पतिमभ्रमोः ॥ ६४ ॥ अवलोक्य ततः पुत्रमासेचनकदर्शनम् । जैवातृकमिवाम्भोधिजहर्ष जगतीपतिः ॥ ६५ ॥ ततः स सत्त्वजनुषा वयसा भूषितोऽभवत् । भुजाभ्यां भूरि साराभ्यां भूमेरुद्रहनक्षमः ॥ ६६ ॥ ततः स शुकनासेन संमन्त्र्य सह मन्त्रिणा । अकरोदस्य विधिवयौवराज्येऽभिषेचनम् ॥ ६७ ॥ बन्दीकृतां विजित्याजौ कुलूतेन्द्रकुमारिकाम् । पत्रलेखां नृपः प्रादात्तस्मै ताम्बूलदायिनीम् ॥ ६८ ॥ स पत्रलेखा पार्श्वे सञ्चरन्त्या निरन्तरम् । रराज राजतनयो राजलक्ष्म्येव मूर्त्तया ॥ ६९ ॥ अथापरेद्युर्हरितां विजयाय नृपात्मजः । वरूथिनीरजः पीतवारिराशिः स निर्ययौ ॥ ७० ॥ तस्मिन्निर्गच्छति तदा बलेन महतान्वितै । चचाल सकला चोर्वी चलाचलकुलाचला ॥ ७१ ॥ शुकनाससुतोऽप्यस्य मुहूर्तविरहाक्षमः । अन्वगादवनीपालपुत्रं तं पत्रलेखया ॥ ७२ ॥ कमप्युन्मूलयन्नन्यं कमपि प्रतिरोपयन् । कस्मादपि हरन्नर्थ कारासु कमपि क्षिपन् ॥ ७३ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy