SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) शशिनः सत्त्वभूतस्य निशेव निकटस्थिता ॥ ४८ ॥ विधोर्गर्भस्य तस्यांशुभरिताविव पाण्डुरौ । स्तनौ नीलमुखौ तस्यास्तदकेनेव मुद्रितौ ।। ४९ ॥ अलसस्निग्धताराक्षमानीलस्तनचूचुकम् । आलक्ष्यमध्यमवहद्वपुः पत्नी च मन्त्रिणः ॥ ५० ॥ ततोऽभिजाते दिवसे सुलग्ने शुभशालिनि । अमृत चन्द्रमैन्द्रीव दिशा देवी विभोः सुतम् ॥ ५१ ।। तस्मिन्नेव दिने सा च मन्त्रिपत्नी मनोरमा । मणि महाधिवेलेव सुषुवे सुतमुज्ज्वलम् ।। ५२ ॥ जगदानन्दजलधौ निमग्नमिव निर्भरम् । तत्सन्तानोदयादासीत्समस्तमुदितोत्सवम् ।। ५३ ॥ ऋणेन मुक्तो रुरुचे पितॄणां पृथिवीपतिः । परिवेषपरित्यक्तः पद्मिनीनामिवेश्वरः ॥ ५४ चन्द्रोपमं नृपः पुत्रं चन्द्रापीडामिधं व्यधात । मन्त्री च वंशोचितया वैशम्पायनमाख्यया ॥ ५५॥ चन्द्रापीडानुगं चक्रे शुकनासः स्वमात्मजम् । पुष्पवद्भयामिवाकाशं ताभ्यां राजकुलं बभौ ॥ ५६ ॥ विधाय विद्याभवनं विभुस्तस्य पुराद्धहिः । अशिक्षयदमुं तत्र गुरुभिर्गुरुवत्सलम् ॥ ५७ ।। शस्त्रेष्वस्त्रेषु वाहेषु शास्त्रेष्वपि सुशिक्षितः । स यथा समभूत्तस्य सखापि च तथाऽभवत् ।। ५८ ।। तत इन्द्रायुधं नाम पिता प्रजविन हयम् । तत्रैव प्राहिणोदस्मै समुद्रात्कञ्चिदुद्गतम् ॥ ५९ ॥ विहङ्गानामिव पतिं तुरङ्गाकारधारिणम् । उच्चैःश्रवसमुद्रीक्ष्य हसन्तमिव हेषया ॥६० ॥ युग्मम् ।। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy