SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखं न लेभे सुचिरं सुतजन्मसमुद्भवम् ॥ ३५ ॥ नृपः कदाचिन्निविण्णो निरपत्यतयात्मनः । बभूव चिन्ताविवशः सह देव्या च मन्त्रिणा ॥ ३६ ।। किर्चिता न कृतिनः किं सत्कर्म कृतं नवा । कि न पात्रे कृतं दानं किं मे वन्ध्यत्वकारणम् १ ॥३७॥ पुत्रस्त्रायत इत्येव पुन्नाम्नो नरकात्पितॄन् । स न चेदस्मि गर्योऽहमुभयोरपि लोकयोः ॥ ३८ ॥ किमैश्वर्येण किं दारैः किं राज्येन किमायुषा ? | कुलधर्वाहकः कोपि न चेल्लभ्येत नन्दनः ॥ ३९ ॥ अपुत्रिणः परार्थोऽयमाधिपत्यपरिग्रहः । मन्ये वर्षधरस्येव सत्कलत्रोपसङ्ग्रहः ॥ ४० ॥ विभुत्वं पुत्रहीनस्य विधवाकण्ठभूषणम् । भस्मन्येव हुतं भाग्यं सम्पत्काननचन्द्रिका ॥४१॥ पुत्रात्मनि पुमर्थेऽस्मिन्पौरुषाणामगोचरे । विना मम गतिर्नान्या भवं भक्तातिभञ्जनम् ॥ ४२ ॥ निश्चिन्त्यैवं नृपः पन्या सचिवेन च संयुतः । तपश्चरितुमारेभे महेशन्यस्तमानसः । ॥४३॥ ततः कदापि सर्वाँ स्वप्ने स्वं विशदाननम् अपश्यदैन्दवं विम्बमवनीपालवल्लभा ॥४४॥ कयापि करयोर्दत्तं पुण्डरीकं प्रहष्टया । ददर्श इयिता चापि शुकनासस्य शोभनम् ॥ ४५ ॥ ततः सा नृपतेः पत्नी तपसां महतां फलम् । वभार गर्भ चन्द्रस्य बिम्ब वीचिरिवाम्बुधेः ॥ ४६॥ आनन्दनमशेषाणामगाभरणमद्भुतम् । दिने दिने"......"यं दधौ दौर्हदलक्षणम् ॥ ४७ ॥ रुरुचे रोमलतिका तस्या मध्ये तनीयसी । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy