SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३) मतङ्गजमतं वर्म मशकैः किं नु वय॑ते ? ॥ २२ ॥ श्रीमानभूदुज्जयिन्यां तारापीडाभिधो नृपः। आमेरुलङ्कमखिलामवनीमन्वभुङ्ग यः ॥ २३ ॥ कूले कूले पयोधीनां कुञ्ज कुळे च भूभृताम् । गीयते यस्य गीर्वाणगणैर्गुणवतो यशः ॥२४॥ यस्य यात्रासु धरणी रमणीव रजस्वला । अभ्यषेचि द्विषामौरसूत च सुतां श्रियम् ॥ २५॥ पीताम्भसि वियत्सिन्धौ यस्य यात्रासु पांसुभिः । तत्र स्वर्णसरोजानि दधुः स्थलसरोजताम् ॥ २६ ॥ मुक्तकोशे मुहुर्यस्य कृपाणे कृतिनो रणे । मुक्तकोशाः स्वयं चापि बभूवुरतिभूभुजः ॥ २७ ॥ ततो विलासवत्याख्या तस्य सर्वगुणोत्तरा । बभूव महिषी पत्युः पशूनामिव पार्वती ॥ २८ ॥ सर्वसौभाग्यसरणिः सौन्दर्यामृतचन्द्रिका । रराज सा रतिपतेः शक्तिमूर्तेव मोहिनी ॥ २९ ॥ समानगुणशालिन्या सदृशोदाररूपया । तया चकाशे भूपालः पौर्णमास्येव चन्द्रमाः ॥ ३० ॥ शुनासीरनिभस्यास्य शुकनास इति श्रुतः । वाचांपतिरिवान्योऽभून्मन्त्री मन्त्रविदां वरः ॥ ३१ ॥ पाणेभ्योऽपि प्रियतमं प्रतिरूपमिवात्मनः भूमेरशिभोक्तारं वितेने तं विशांपतिः ॥ ३२ ॥ वशिष्ठादलघिष्ठस्य तस्य रुन्धत्यरुन्धतीम् । मनोरमेति नाम्नासीन्मन्त्रिणो वामलोचना ॥ ३३ ॥ विभुस्तस्मिन्स विन्यस्तविश्वभारो विचक्षणे । शेषन्यस्तधुरः सोरेरन्वहं सुखमन्वभूत् ॥ ३४ ॥ स पात्रं सर्वसौख्यानां भवन्नपि च पार्थिवः। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy