________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
॥
(२) वर्द्धते महती स्पर्धा मन्दिरे यस्य बन्धुरं ॥ ९ ॥ तरुच्छायेव तप्तस्य तृषितस्येव दीर्घिका । निर्द्धनस्येव च निधिर्जगतो योऽद्य जायते ॥ १० ॥ सर्वज्ञचूडामणिना सर्वपापापहारिणा । सदानन्दकृता येन द्विचन्द्रं दृश्यते जगत् ॥ ११ ॥ कृतिनो रूढसत्त्वस्य कृष्णस्येवाच्युतात्मनः । भ्राता समधरो यस्य बलभद्र इवाभवत् ॥ १२ ॥ महीतलमहेन्द्रस्य मालवानामधीशितुः । स मन्त्री समभूत्याज्ञो वाचांपतिरिवोज्ज्वलः ॥ १३ ॥ न भ्रातृषु न मित्रेषु न ज्ञातिषु न बन्धुषु । भवत्युर्वीपतेरस्य तस्मिन्यत्प्रेमशाश्वतम् ॥ १४ ॥ स कदाचिन्नृपः सायं समये शर्वरीमुखे । विद्यानिधिममुं प्राह विद्वद्गोष्ठीमधिष्ठितः ॥ १५ ॥ कादम्बरीकथाबद्धकौतुकं हृदयं मम । कदापि कालो न श्रोतुं निविष्टस्य नृरक्षणे ॥ १६ ।। तदिदानीं त्वया सम्यक् सा संक्षेपेण कथ्यताम् । मतिवैभवनिस्तीर्णवाङ्मयेन ममाग्रतः ॥ १७ ॥ इत्येवमर्थितो राज्ञा माज्ञेषु प्रथमेन सः। बद्धाञ्जलिरिदं प्राह मण्डनो मन्त्रिशेखरः ॥ १८ ॥ कादम्बरीकथा स्वामिन् ! महती च महाभूता। सा संक्षिप्यैव कथिता बाणेनापि महाधिया ॥ १९ ॥ देवी कादम्बरी दिव्या चन्द्रापीडः सचन्द्रमः । तयो वावधिः शङ्के गौरवेषु गुणेषु च ॥ २० ॥ तथापि शासनाद्देव ! तव संक्षिप्य तां कथाम् । वक्ष्ये वाचां न गण मर्पणीयं महाजनैः ॥ २१ ॥ बाणस्य वर्मना गन्तुर्मम मास्त्वपराधिता।
For Private and Personal Use Only