________________
Shri Mahavir Jain Aradhana Kendra
श्रीहेमचन्द्राचार्यग्रन्थावली.
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ॐ अर्हम्
मण्डनग्रन्थाङ्कः
मण्डकादम्बरीदर्पणम् ॥
महस्तन्मङ्गलं नित्यं भूयसे श्रेयसेऽस्तु वः । कामं पुष्णाति यत्पुंसां कामवर्जितमप्यहो ! ॥ १ ॥ वंश: सोनगिरो नाम वर्द्धते वसुधातले । श्रीमाल इति विख्यातः श्रूयते यः शुभावहः ॥ २ ॥ प्रसन्नमधुरोदारप्रकृतिर्व्या[व्या ] सभूतलः । महतां मन्त्रिरत्नानामाकरो यः प्रशस्यते ॥ ३ ॥ नत्रासीच्झणो नाम विशुर्विश्रुतवैभवः । जाते यस्मिन्जगत्सर्वं महन्मङ्गलमन्वभूत् ॥ ४ ॥ चाडप्रमुखास्तस्य शाश्वतौदार्यशालिनः । पडभूवन्सुता मूर्त्ताः षड्गुणा इव मन्त्रिणः ॥ ५ ॥ चाहडस्यानुजस्तेषु बाहडो मन्त्रिपुङ्गवः । वसन्त इव कालेषु माननीयोऽभवद्गुणैः ॥ ६ ॥ मान एव धनं बन्धुरतिथिर्दानमा [म]र्जनम् । तस्य धर्मवृत्तस्य बभूवुर्विश्रुता भुवि ॥ ७ ॥ तस्याभूत्तनयो नाम्ना मण्डनो विश्वमण्डनः । शोभते यः शुभोदारः स्वयंवरपतिः श्रियः ॥ ८ ॥ महालक्ष्मीसरस्वत्योर्बद्धसापत्न्यवैरयोः ।
For Private and Personal Use Only