SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२९) विप्राणामनुपूजको यशसि सुप्रीतिः शुचिर्भाषणः । शक्त्याधिक्यधनार्थिदोऽमलमतिर्मानोन्नतिः सन्ततम् दीर्घायुभव मण्डन ! क्षितितले कीत्र्येकचित्तः सदा ॥४॥ सुश्रीकः श्रुतपारगः सुवचनः सत्यप्रतिज्ञः सदा साहित्यामृतलालसो बहुमतः सङ्गीतशास्त्रादरः। दातृत्वैकनिधिर्गुणैकजलधिश्चातुर्यचर्यावधि स्त्वायुष्मान्भव मण्डनावनितले संस्तूयमानो बुधैः ॥४३॥ हेमाद्रेगिरयो गरुत्मत इमाः पक्षालयो भास्वद स्तेजांस्यादिकिररय सूकरगणा वृक्षाः सुरद्रोरिव । श्रीमन्मण्डन ! निम्नगा जलनिधेचिन्तामणेः परतरा ___ यस्यायान्ति गुणैर्नृपा ननु तुलां स त्वं चिरायुभव ॥४॥ दानेनार्थिजनाः कृता नृपतिवत्प्रौढ्या कृता दीनवत् ज्ञातृत्वेन विवादिनः प्रतिदिन येन क्षणानिर्जिताः । ऐश्वर्येण जिताः समस्तधनिनो व्यापारसन्मण्डिनो ___ जीयान्मण्डनसङ्खपः स तु मुदा दारिद्रयदुःखापहः॥४५॥ सोऽयं नन्दतु मण्डनः क्षितितले देवाः स्वहस्तार्चिता येनोखूपसुगन्धचन्दनमहत्पुष्पोपहाराक्षतैः । साकं पुत्रकलत्रसेवकजनस्तादृहद्भिर्मुदा दुर्गे मण्डपनामधेयरुचिरे सौधप्रभादीपिते ॥ ४६ ॥ एवंविधं काव्यमनोहरं वै महेश्वरेणात्ममतिप्रभावात् । अकारि यत्नेन महीयसेदं श्रीमण्डनेन्द्राय विदेऽभिधातुम् ॥४॥ इतिश्री काव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनवंशवर्णो नाम सप्तमः सर्गः॥ संवत १५०४ वर्षे मार्गशिर्षकृष्णपक्षषष्ठयां रवौ दिने लिखि विनायकदासकायस्थेन ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy