________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(८) क्वाहं क्व नु बलं क्वाध्या क्व गन्तव्यमितः परम् । शिबिरं प्रति यास्यामि वर्मना केन वा पुनः १ ॥ ८७ ॥ गृहीत्वा यदि गमिष्यामि वर्त्म वाजिखुराङ्कितम् । तन्न दृश्यते पाषाणैः पर्णैरपि परिस्तृतम् ॥ ८८॥ विधिनाश्चमुखव्याजात्सत्यं नीतोऽस्मि सम्पति । भवन्ति भाजनान्येवमापदामविवेकिनः ॥ ८९ ॥ तुरगस्तृषितः सोऽयमहमप्यधिकश्रमः पूषा ललाटं तपति पूर्वभागोज्झितं दिनम् ॥ ९० ॥ इति संचिन्तयन्नेव सलिलान्वेषतत्परः। शनैः सञ्चारयत्नश्वं चचार परितः श्रमी ॥९१ ॥ चरन्नितस्ततस्तत्र बने खिन्नः पदे पदे । कालेन महता कश्चित्पन्थानं पर्यलोकयत् ॥ ९२ ॥ विकीर्ण मिश्रशैवालणालैरर्द्धखण्डितैः । पङ्किलस्थलमार्दाभिः करिणां पदपतिभिः ॥ ९३ ॥ पथानन पर हृष्यन्नतीत्य स्तोकमन्तरम् । अपश्यदमलोदारवारिपूरं महत्सरः ॥ ९४ ॥ समुद्रस्येव हृदयं मानसस्येव मातृकाम् । सरितां जारमिव तत्सवितारमिवाम्भसाम् ॥ ९५ ॥ रविरथ्यतुरङ्गाणां खुरकुद्दालकुटनैः । अधस्त्रुटितमाकाशखण्डमेकमिव च्युतम् ॥ ९६ ॥ अम्भोभिररविन्दानां मकरन्दसुगन्धिभिः । अम्बुमानुषयोषाणामधिवासितकुन्तलम् ।। ९७ ॥ सञ्चरत्याः सदा नैजसरोजविपिने श्रियः । दधन्नूपुरनिःस्वानधियं कारण्डनिःस्वनैः । ॥ ९८ ॥ अपतस्वच्छसलिलमन्तराकीर्णशैवलम। विधोबिम्बमिवाकाशाच्च्युतं सुस्पष्टलाञ्छनम् ॥ ९९ ॥
For Private and Personal Use Only