________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (२७) श्रीचाहडस्य तनयौ सनयौ सवेषौ
चन्द्रश्चकास्त इति चानुजखेमराजः । राजन्मयूखमणिकाञ्चनकुण्डलाढयौ
__ कन्दपेचारुतनुसंनिभविग्रहौ च ॥ २२ ॥ रापल्यभिधानके पुरवरे श्रीचाहडः सडपो
यात्रां संविदधे तथार्बुदगिरौ तीर्थे व्ययं तादृशम् । सर्वागतसडपालनपरो वंशे प्रयातोन्नतिः
वितर्वाजिभिरंशुकैबहुविधैः संपूरयन्तं पृथक् ।। २३ ।। श्रीमद्वाहडसङ्घपस्य तनयौ द्वावुत्तमाभौ भृशम् _ राजेते तु समुद्रसङ्घप इति ख्यात्या विशिष्टो भुवि । श्रीमन्मण्डनसङ्घपस्तदनुजः श्रीमालभूषामणिः
दारिद्रयौघतमःप्रचण्डतरणिः सत्सरिचिन्तामणिः ॥२४॥ श्रीबाहडः संविदधे सुतोषाद्यात्रां गिरौ रैवतनामधेये । सङ्घाधिपत्यं प्रथमं विधाय वित्तस्तुरङ्गैर्बहुचारुचेलैः ॥२५॥ श्रीदेहडस्य तनयोऽपि जयत्यभीष्टः
श्रीधन्यराज इति विस्तृतनामधेयः । लावण्यमन्मथतनुगुणराजमानः
केयूररत्नमणिशोभितपादपद्मः ॥२६॥ श्रीनेमिनाथतनयेऽर्बुदनामधेये (?)
यात्रांव्यधान्महितदेहडसङ्कपः सः । अत्यन्तसङ्घपरिपालनधीरचेता____ चातुर्यवर्यपरिपूरितदिग्विभागः ॥ २७ ॥ श्रीकेशिराजनृपति हरिराजसंझं
भूपं तथाह्यमरदासमहीपतिं च । योऽमोचयद्धहलशृङ्खलपीडिताङ्गं
सर्वोपकारकरणेविलसत्सुकीर्तिः ॥ २८ ॥ सोऽयं वराटलूणारबाहडोत्तमजन्मनाम् । लोकानामुपकारार्थ मोचयद्वन्धनानि वै ॥ २९ ।।
For Private and Personal Use Only