________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. ( १९) पलाशजम्बूसहकारतालतमालशालप्रमुखास्तदन्ये ॥६॥ उदुम्बराशोकसुपाटलादिजम्भीरसच्चम्पककाञ्चनाख्याः । धात्रीसु वृक्षाः पनसास्तदन्ये बन्धुकरमद्रुमपिप्पलाश्च ॥ ७ ॥ वटास्तथान्ये बकुलाभिधेयाः सद्देवदारूत्तमकोविदाराः । मन्दारवृक्षाः ककुभास्तदन्येऽम्लिकाः सुशाला बदरीद्रुमाश्च ॥८॥ अन्ये वसन्तागमभासमानाः प्रियङ्गबिल्वाः खदिराः करञ्जाः । सन्मातुलिङ्गीतरुदाडिमेया नानाविधाः पादपजातयश्च ॥९॥
आदिकुलकम् ।। एतद्गुणां पादपमण्डली सत्फलप्रमूनारुणपल्लवान्याम् । विलोक्य याता बहवो विहङ्गाः पुंस्कोकिलावत्किर
सारिकाद्याः ॥ १० ॥ कुहूकुहूः सन्ततमित्युदारवाचं वितन्वन्ति महोत्स्वैयें । पुस्कोकिलाश्रुतसुमञ्जरीस्ते लुनन्ति चञ्च्चा मुषिता इहतौ ॥११॥ आरामनानाविधसत्तरूणां यथाभिलाषं फलपल्लवांश्च । विहङ्गमौघाः किल भुञ्जतेऽस्मिन्वसन्तनित्योत्सवमानसाश्च ॥१२॥ फलानि पक्वानि महातरूणामदन्ति सर्वाः शुकसारिकास्ताः । परस्परं शब्दितजाततोषाः कण्डूयमानाङ्गविशेषविनाः ॥ १३ ॥ यथापियं सर्वविहङ्गमास्ते लिहन्ति मुश्चन्ति फलानि रुच्या । नानाविधान्युत्तमगन्धचारुसुगन्धितान्यादरकारकाणि ॥ १४ ॥ यथाप्रकारं हि वसन्तकाले क्रीडन्ति धन्या वनवापिकासु । सुवर्णसर्वाभरणान्विताभिः स्वकामिनीभिः कुचसनताभिः ॥१५॥ सिञ्चन्ति नार्यः स्वपतीन्सुहेमशृङ्गार्पितानेकसुगन्धितोयैः । यस्मिन्वसन्तवनवापिकायां क्रीडाकुलाः सस्तनितम्बवस्त्राः ॥१६॥ चापीजलासिञ्चितमूर्तयस्ता विमृष्टसर्वातुलपत्रवल्लयः । कान्ताः प्रियालोकनजातलज्जा मजन्ति तोयेज्जवप्रकाशात् ॥ विहारदृष्टावयवैः प्रियाणां ते कामिनस्तत्समये युवानः ।
.
For Private and Personal Use Only