________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१८) काव्यमनोहरम्. अभीष्टपत्यागमनोत्सवानां विलोलचैलाश्चलगूढवाचाम् ॥ ४६॥ एवंविधं यद्गमनं नृपाणां यस्मिन्नृतौ तत्कथितं मयाऽत्र । अन्यत्तथावर्णनमिष्टमस्ति ग्रन्थस्य बाहुल्यभयान चोक्तम् ॥४७॥ अथोच्यतेर्तुमहितो मयायं हेमन्तनामा वनिताप्रियश्च । कन्दर्पयोषापरधन्यलोकश्रीमल्लसन्मानसकारकश्च ॥ ४८ ॥
इति शरदमभीष्टां चारुहेमन्तमुक्त्वा___प्यमलविविधभोगेर्नामराणां महान्तम् । वदति शिशिरमुख्यं सद्वसन्तानुगं च ।
खलु महितगुणाढयं वर्णनं काव्यकारः ॥ ४९ ॥ ऋतुद्वयेऽस्मिन् कथिते मयेवं श्रीमण्डनो भोगपुरन्दरः सः। नयत्यभीष्टं समयं सुकीर्तिः सदा यथाकालमृतूपभोगैः ॥५०॥ इतिश्रीकाव्यमनोहरे महाकाव्ये महेश्वरकृतौ श्रीमण्डनऋतुद्वयो
. पभोगवर्णनो नाम चतुर्थः सर्गः ॥ अथोच्यतेर्तुः शिशिराभिधानः कन्दर्पबाहुल्यकरो जनानाम् । हिमप्रभाकम्पितसवलोको वराङ्गनायोषितकामकेलिः ॥१॥ दिनानि यस्मिन्विलघूनि सत्यं भवन्ति तृष्णादरसूचकानि । महावनीशोद्भवसत्प्रतापैर्यथारिन्दानि भयाकुलानि ॥२॥
खाद्यानि लेह्यान्यपि चोष्यपेया
न्यन्नानि धन्याः खलु भुञ्जतेऽस्मिन् । कोष्णानि नूनं रुचिकारकाणि
विशेषतः षड्सपोषितानि ॥३॥ हिमं यदीयं क्षपयन्ति धन्याः शय्यासु चोष्माञ्चिततूलिकासु । योषाकुचालिङ्गनसन्ततोष्णैर्दिनेषु धूपार्चितवह्निभिश्च ॥ ४ ॥ वसन्तनामाऽयमृतुर्महीयाभिगद्यतेजा सुजनाभिरामः । वनस्थलीभासितपल्लवायः पिकादिपक्षिव्रजतोषकारी ॥५॥ महीरुहाः पल्लविताः समस्ता यस्यागमे सर्ववनस्थलीयम् ।
For Private and Personal Use Only