________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम्. २३ भावसन्धिर्यथाकरोमि किश्चिदयितो मदीये पादे पतिष्यत्यपराधभीतः। द्रक्ष्यामि देवादहमेव चैनं तत्पादपये प्रणिपत्य वक्ष्ये ॥ २० ॥ भत्र चिन्तौत्सुक्ययोः सन्धिः ॥
अथ रसदोषाः व्यभिचारिरसस्थायिनारायभिधानतः । क्रियते या रसव्यक्ती रसदोषः स उच्यते ॥८॥ व्यभिचारिनाना रसव्यक्तियथासश्रमा सुगमनेऽपि सखेदा गोष्ठिकासु तव मूछितमोहा । दर्शनार्थमथ सा च सचिन्ता विस्मृता किमधुना हरिणाक्षी ? २१
अत्र एवं भाब्यम्मन्दमन्दगमनेऽपि सखेदा गोष्ठिकासु तव मूञ्छितमूर्छा । ध्यानमिष्टहृदया भक्तोऽसौ दर्शनाय शठ ! मा त्यज बालाम् २२ स्थायिनाम्ना रसव्यक्तिर्यथा
उत्साहस्तव समामे क्रोधो रिपुयशस्सु च ।
रतिौरश्रियः सङ्गे त्वं जितात्माऽसि भूपते ! ॥२३॥ अत्र 'उत्साहः ''क्रोधः' रतिः' इति स्थायिन उक्ताः ।। रसनाम्ना रसव्यक्तिर्यथा
आनन्दितचकोरौघे चलत्स्वैरिणिकागणे ।।
उदिते चन्द्रमस्यासीद्रसः कश्चन कामिषु ।। २४ ॥ शृङ्गारादिनाम्ना रसव्यक्तिर्यथाव्याधस्य बाणेन विभिन्नदेहमार्तस्वरं वीक्ष्य वने द्रवन्तम् । मृगं विनिर्यदुधिरौघरक्तं मुनिर्व्यरोदीत्करुणेन पूर्णः ॥२५॥
अत्र 'करुणेन' इति।
For Private and Personal Use Only