________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम्. यथा
धनुारोहणं वीर ! कुरु सयामकोविद ! । तथा च
हस्तस्य तस्याः कटकं श्लथत्वं
तन्व्या गतं त्वद्विरहाकुलायाः । अद्यापि नो यास्यसि चेनृशंस !
प्राणाः पतिष्यन्ति च तेन साकम् ॥ ६३ ।तथा च
श्रूयन्ते केकिनां केका नृत्यतां शिखरे गिरेः। इत्याधन्यदपि ज्ञातव्यम् ॥
इति श्रीजिनभक्तन मण्डनेन विनिर्मिते । द्वितीयोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ ११ ॥
अथ गुणानाह पुष्पमालेव ललिता गुम्फिता भाति भारती । यैर्मनोहारिभिस्तेऽद्य कथ्यन्ते प्रभवो गुणाः ॥१॥ समतौदार्यमाधुर्यसौकुमार्यप्रसन्नताः।
समाधिश्लेषकान्त्योजांस्यर्थव्यक्तिर्पणा दश ॥ २ ॥ बन्धस्य साम्यं समता यथा
परिजनघनवृन्दा नन्दिनी चारुवृन्दा वनतरुगतगोपीमण्डली मण्डलं या ।
समदजलदकान्तिः सा समायातु नित्यं तनुहृदयपयोज मजला देवता मे ॥ १॥
For Private and Personal Use Only