________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.१४
श्रीअलङ्कारमण्डनम्.
साकाक्षो यथा
मत्तो जलदसमूहो दृप्ता नृत्यन्ति केकिससाताः । अध्वगमूढ ! कथं तां सहसे कान्तां विदेशगताम् ॥ ५३ ॥
‘कान्तां त्यक्तुं कथं सहसे' इत्याकाक्षते ॥ अपदमुक्तो यथामित्रं कृष्णो यस्य बन्धुश्च धर्मस्तातः शक्रो विक्रमोऽलौकिकश्च । न स्यादन्यः फाल्गुनाद्वलादेवो देवोऽप्येवं सर्वशक्त्याभियुक्तः।।५।।
अत्र 'न स्यादन्यः' इत्यनेनैव सिद्धे 'देवोऽप्येवम्' इति अपदमुक्तः ॥ त्यक्तानुस्वीकृतो यथा
यद्गुणाः कर्णकुहरे सजनानां तु शेरते । स अव पुरुषो लोके गुणगौरवभूषितः ॥ ५५ ॥
अत्र 'गुणगौरवभूषितः' इति ।। विष्यभुवादायुक्तो यथा
सरस्वति ! नमोऽस्तु ते विहर वक्त्रपकरहे __ महेशगुणवर्णनामृतरसप्रमोदोद्धते । मदान्धजनसर्पिणि प्रणयमाशु निन्दापदे
त्यजाशु भज गोष्ठिका सुजनसङ्गमे सङ्गमे ॥ ५६ ॥ 'मदान्धजनसपिणि ' इत्यावश्यकार्थादन्योऽर्थों विध्यर्थादन्यः, इति । सहचरभिभो यथादानेन दाता कपटेन चौरः शौर्येण वीर्यो यशसा नपालः। सत्येन योगी कृपया द्विजन्मा रूपातिरेकं जगति प्रयाति ॥ ५७ ॥
अत्र 'कपटेन' चौरः' इति ॥
For Private and Personal Use Only