________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३
श्रीअलङ्कारमण्डनम्. प्रासे स्नानम् , न तु प्रासात्पूर्वम् ; इति विद्याविरुद्धः ॥ सन्दिग्यो यथा--.. कीर्तिः प्रयाति भवतः सहसैव राजन
देशान्तरं प्रकुपितेव तवातिदानात् । समामरङ्गनिहतारिसहस्रखिन्नः
कोशं प्रविश्य शममेति च खड्ग अषः ॥ ४८ ॥ अत्र 'तवातिदानात्खण्डनात्प्रकुपिता देशान्तरं याति' इति सन्दिग्धः॥ अनवीकृतो यथाकिमधुना वनवासरतेन मे किमधुना जनमध्यगतेन मे ।। किमधुना धनसङ्ग्रहणेन मे स्मर हरस्य पदाम्बुजभाजिनः ॥४९॥
अत्र 'किमधुना' पुनः, इति । प्रकाशितविरुद्धो यथा
औदार्यस्योपरि नृप ! त्वया प्रीतिभृता भृशम् । . तस्मात्क्रुद्धमिवानर्घ्य धनं याति दिशो दश ॥ ५० ॥ ..
अत्र 'क्रुद्धं सद्धनं दिशो दश याति' इति प्रकाशितो विरोधः॥ अहेतुर्यथा
तव परिमलमात्रादपि कुसुमायुधदीपनं सदा भवति । तरुणीविलासगुरुरासि परिहर भुजगान्पटीरसरवे ! ॥ ५१ ॥
अत्र भुजगनिराकरणे हेतुक्तिः ॥ अश्लीलो यथा- ..
यस्य स्यात्कुटिलैः साकं सङ्गः स्तब्धस्य नित्यशः । छिद्रप्रवेशिनस्तस्य पतनं भवति ध्रुवम् ॥ ५२ ॥
For Private and Personal Use Only