________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम् . अपुष्टो यथा
पुष्पदन्तो जयत्येष सुरासुरनिषेवितः ।
तपतीतीरपानीयनीरजैः पूजितो द्विजैः ॥४१॥ अत्र 'तीरपानीयादयः' शब्दाः परस्परमर्थपुष्टिदा न भवन्ति व्याहतो यथा
तडागभवतः पद्माः सन्ति पद्मालयप्रियाः ।
तथापि मत्प्रियावक्त्रपने पद्मास्थितिप्रिया ॥ ४२ ॥ अत्र पूर्वार्द्धपद्मशब्देन वक्त्रपद्मशब्दार्थो व्याहतः ॥ कष्टो यथाउपवनघनवाटिकासु तस्मिन्कुसुमितकुखरजो विवेश नेत्रे । स्मरगज इव कामदुगेमध्ये युगचरितातरकिन्नराङ्गनानाम् ॥४३॥
अत्र 'युगचरितम्' अनेन द्वन्द्वसम्भोगः, 'कुजरजः 'अनेन लतागुल्मप्रसूनपरागः; इति कष्टः ।। पुनरुक्तो यथा नैव वक्ति परुषाक्षरपङिक्त नाशयत्यविदितः परकार्यम् । द्वेष्टि साधुचरितानि खलोऽसौ तत्सुखं क पिशुने सति पुंसाम् ॥४४॥
'दुर्जनः' इत्युक्ते पुनः ‘पिशुनशब्दः' पुनरुक्तः ॥ दुष्क्रमो यथा
कृत्वा देवार्चनं साधो ! बलिदानं ततः शुभम् ।
सिद्धये कुरु कार्यस्य स्नानसन्ध्यादिकं विधिम् ॥ ४५ ॥ प्रसिद्धिविरुद्धो यथा
अपहाय मधुव्रतोऽधुना नलिनी दुर्लभसौरभप्रदाम् ।
विटवञ्चदुलः पटीरजां भजते कोमलपुष्पमालिकाम् ॥ ४६ ।। विद्याविरुद्धो यथा
राहुप्रस्तो निशानाथो यावदेव प्रजायते । तावदेव जनः स्नाति कश्रिदाग्रहकारकः ॥ ४७ ॥
For Private and Personal Use Only