________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्. अत्र 'गगनमण्डलमिन्दुर्गाहते' ' षट्पदाः कमलमध्यगोचराः सन्त शेरते' इत्यव्यस्तं भाव्यम् ।। गर्भितम्-यत्र वाक्यान्तरमेव वाक्यान्तरं प्रविशति, तत् । यथा
परदुःखकृतां पुंसां रौरवेषु महास्थितिः ।
सत्यमेतत्पुराणोक्तमाचन्द्रार्क तु जायते ॥ ३८ ॥ अत्र ' स्थितिर्जायते' संलग्नमेव भाव्यम् ।। अमतपरार्थम्-अमतः प्रकृतविरुद्धः परार्थों यत्र, तत् । यथा
त्वत्खड्गवल्ली भात्येषा कामिनीव महीपते ! ।
अरिरक्तौघसिन्दूरमांसकमचन्दना ॥ ३९ ॥
अत्र 'रक्तं सिन्दूरं मांस चन्दनम्' इत्युक्ते शृङ्गाररसस्य प्रतिकूलता। अभवन्मतयोगम्-अभवन्-असिद्धो मतोऽभीष्टः योगः- सम्बन्धो
___यत्र, तत् । यथास्वगुणोदधिसंवृद्धो दानवारिविराजितः । यशश्चन्द्रः प्रकाशेन प्रौढः कस्यापि देहिनः ॥४०॥
अत्र देहिनो गुणोदधिसंवृद्धः' अवं न लगति, 'यशश्चन्द्रस्य' एव लगति ॥
॥ इति वाक्यदोषाः ॥
अथार्थदोषा उच्यन्तेअपुष्टो व्याहतः कष्टः पुनरुक्तश्च दुष्क्रमः । प्रसिद्धिविद्याविरुद्धः सन्दिग्धोऽथानवीकृतः ॥७॥ प्रकाशितविरुद्धश्चाहेतुरश्लील अव च ।। साकाङ्क्षोऽपदमुक्तस्तु त्यक्तानुखीकृतः पुनः ॥८॥ विध्यनुवादायुक्तः सहचरभिन्नस्तथा पुन म्यः । दुष्टोऽर्थोऽपि सनियमानियमविशेषाविशेषान्यः ॥९॥
For Private and Personal Use Only