________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. ११.
ॐ अहम् मण्डनग्रन्थाङ्कः ४.
। श्री अलङ्कारमण्डनम् । जिनेन्द्रपादाब्जरजःपवित्रं कुर्यात्मसन्न हृदयं सदा वः नभास्थलं ध्वान्तसमूहरुद्धं चन्द्रस्य धामेव सुधासवर्णम् ॥१॥ कोदण्डिनी ताण्डविकुण्डलाभां समाश्रयामो हृदये दयालुम् । खण्डेन्दुचूडस्य दृढाभिमानशरव्यखीण्डस्फुटटीग्वलासाम् ॥२॥ अथ काव्यप्रशंसागङ्गातरङ्गान्नहि पापहारि न सुभ्रुवां विभ्रमतो मनोज्ञम् । न गुञ्जतो मञ्जु मधुव्रतानां श्राव्यं न काव्यादपरं सुखाय।॥३॥ काव्याब्धिगर्भाच्छरदभ्रशुभ्रो विज्जृम्भते चारुयश शशाङ्कः । ततः कवीन्द्रास्त्रिदशान्विशन्तः सुधौघकलोलभुजि भजन्ते ॥४॥ नचित्तशुद्धया न च योगबुद्धया न दिव्यदृष्ट्या न च भूरि दिष्ट्या । ब्रह्मप्रबोधादपि दुर्विबोध कायं हि नव्यं रचयन्ति केचित् ॥५॥ नाप्येकपयं कुरुतेऽनवयं निहत्य निन्यं पिशुनस्तु शास्त्रम् । न जीवयत्येकमपीह जीवं विनाशयत्याशु बहून्मुजङ्गः ॥६॥ नव्येन काव्येन सतां प्रमोदः सदा विषादस्तु भवेत्खलानाम् । द्राक्षा हि साक्षादमृतोपमेया भजन्ति कीरा न तु सारमेयाः॥७॥
कविवाणीविलासिन्यो विलासान्येन विभ्रति ।
परोपकरणार्थाय कुर्वेऽलङ्कारणण्डनम् ॥ ८॥ अथ काव्यलक्षणम्
सालङ्कारगुणा सार्थाऽदोषा वाक् काव्यमुच्यते । मुख्यध्वन्युत्तमं काव्यं गौणध्वनि तु मध्यमम् ॥ ९ ॥ चित्र शब्दार्थयोर्यत्तद्ध्वनिहीनं तथाऽधमम् ।
For Private and Personal Use Only