________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१२) श्रीचन्द्रविजयप्रबन्धः ततः शनैः सैष कृतानुरागस्तारावरोधैः शतशः परीतः । जलावगाहं जलधेरकार्षीद्विह कामो विभुरोषधीनाम् ॥ ९७ ।। स तारकाभिः सह तत्र वाः समन्ततो वारि चरन्मृङ्गाकः। शको हरेः पूर्वमिवाभिवीतो मुक्ताभिरात्मोदरनिःसृताभिः ।।९८॥ आरुह्य चारुह्य हठात्सलीलमाक्रम्य लोलामथ वीचिमब्धेः। स तारकाभिः सह तत्र रागी चकार दोलाविहति शशाङ्कः।।१९।।
तदनु तुहिनरोचिस्तारकासुन्दरीभिः ___ परिकलितविहारः पश्चिमाम्भोधिमध्ये । सकलमपि च जित्वा शेषलोकान्धकार
पुनरुदयगतः सन्पूर्वशैलं प्रपेदे ॥ १० ॥ इति श्रीमालकुलतिलकस्य मण्डनामात्यस्य कृतौ चन्द्रविजयो
नाम प्रबन्धः समाप्तः कार्तिकशुक्लाष्ठम्यां बुद्धदिने लिखितं विनायकदासेन ।
0000. POOR
-
--
-
For Private and Personal Use Only