SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (११) ततः शनैरुज्झितपूर्वशैलवनान्तरो वल्लभया रजन्या। . विलकामो वियदन्तगेहं विकीर्णताराकुसुमं प्रपेदे ॥ ८४ ॥ तया पुनस्तत्र विहृत्य कामं संस्तीर्णलीलाशरदभ्रतल्पे । सञ्जातवेदः किल सानुरागः स वारुणीं प्राप पुनः शशाङ्कः ॥८५॥ स वारुणी संप्रतिपद्य चन्द्रो माद्यन्निवोद्यन्मदरागबन्धः । तल्पे तटे पश्चिमपर्वतस्य पपात पादस्स्वलनोपयुक्तः ॥ ८६॥ समुल्लसभन्दनवाटिकासु सान्द्रेन्दुकान्तोपलशालिनीषु । तस्यास्तशैलस्य तटस्थलीषु सहैव पत्न्या निशया स रेमे ॥८७॥ तत्र स्थितः शक्रदिशारमण्याः पयोधरे पूर्वगिरौ सलीलाम् । करैर्निजैः कामसखो वितेने पटीरगौरैरनुलेपलक्ष्मीम् ॥ ८८ ।। तस्याग्रसानोरवतीर्य मन्दं स शर्वरीदत्तकरावलम्बः । परिस्फुरत्पल्लवपुष्परम्यं पर्यन्तसीमावनमाससाद ॥ ८९ ॥ चचार तत्सानुवनान्तरेषु स तारकाभिः सह वल्लभाभिः । पुरस्कृतः प्रेमजुषा रजन्या पुष्पोपचारक्रिययैव चन्द्रः ॥ ९ ॥ करास्तदीयाः कलिकान्तरेषु पुष्पापचायाय किल प्रविष्टाः। वितेनिरे तद्विपिनद्रुमाणां पुङ्खानुपुङ्खां प्रसवस्य लक्ष्मीम् ॥११॥ तत्रोपविष्टश्चरमाद्रिसानो क्षणं सुधांशुः क्षणदासहायः। व्यलोकयद्विद्रुमवल्लरीभिरापाटलं पश्चिममम्बुराशिम् ॥ ९२ ॥ महानसं तं मरुतामुदारं मन्दाकिनीमङ्गलसूत्रमूलम् । मधुद्विषो वासगृहं महाब्धि मुदं दधौ विक्ष्य मुहुः कलावान् ॥१३॥ ततः स पुष्पापचयोपजातपरिश्रमः पश्चिमवारिराशेः । जले विहन्तु जनिताभिलाषस्तत्सैकतानां सविधं प्रपेदे ॥ ९४ ॥ स विभ्रमोद्यच्चटुलोर्मिजालविकीर्णमुक्ताफलमेदुरेषु । कलानिधिविभ्रमकन्दवत्सु चचार तत्सैकतमण्डलेषु ॥ ९५ ॥ वियत्पथोल्लङ्घविशेषखिन्नो विभुर्विशश्राम विभावरीषु । समुल्लसच्छीकरकोरकाढयैः समीरणैः सागरवीचिजातैः ॥१६॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy