________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री अलङ्कारमण्डनम्. मुख्यचनियथा
विदितमदनसौख्याऽनर्थ्यलावण्यपूर्णा - त्वमसि स च युवा स्त्रीचित्तचौरो विदग्धः । विजनमथ पदं तन्नित्यवैचित्यदायि
__ व्रज सखि ! सहसा मे जीवितं रक्षणीयम् ॥ १॥ अमुख्यध्वनिर्यथाचन्द्रे प्रबुद्धे स्वमरिचिरोचिरुद्भासितक्ष्मातलदुर्गमार्गे । म्लानाननाऽभूत्तरुणी क्षणेन चौर्येण कान्तं प्रति गन्तुकामा ॥२॥ शब्दचित्रं यथा
उद्वेल्लत्पल्लवोल्लीलवल्लीसंलीनषट्पदः।
अनिलोलासिबकुलगन्धः सुरभिरागतः ॥ ३ ॥ अर्थचित्रं यथारक्ते दिनेशदयिते सति पश्चिमायां सन्ध्याऽरुणा प्रकुपितेव दिनावसाने । शान्तालिकोकिलकुलध्वनिता विभाति मौनव्रतं विदधतीव वनस्थलीयम् अथ काव्योत्पत्तिमाहकाव्यस्य हेतुः प्रतिभा सर्वशास्त्रावलोकनम् । गुरूणां निकटेऽभ्यासः काव्यकृज्जनमित्रता ॥ १० ॥ देशभाषापरिज्ञानं कविच्छायोपजीवनम् । सदसल्लोकचातुर्य छन्दोबन्धनमेव च ॥११॥ नव्यार्थानां च घटना समस्या पूरणं तथा । अर्थसङ्कलना चैव वस्तुरूपविवेकिता ॥ १२ ॥ अथकाव्यशिक्षामाह
यमकश्लेषचित्रार्थे सदृशौ तु वबौ डलौ । अनुस्वारविसगाभ्यां चित्रभङ्गो न जायते ॥ १३ ॥
For Private and Personal Use Only