SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (९) पूर्वाचलप्रस्थसभामुखस्थं प्रदोषवेलौषधिदीपिकाभिः । अनुष्णभानोरवदातकीर्तेरारार्तिकं मङ्गलमाततान ॥ ५८॥ महोदधेरुद्धतवारितूर्य मध्यस्फुरन्मङ्गलरत्नदीपम् । तत्र स्थितो वीचिविलासिनीनां विलोक्य नृत्तं मुमुदे सुधांशुः॥५९॥ ततः समानीयत शर्वरी सा पित्रा प्रदोषेण विधोः सकाशम् । श्यामा चिराविष्कृतसान्ध्यरागा तमिस्रकेशा चलतारहारा ॥६॥ तस्याः करग्राहविधि स कर्तुं चन्द्रः स्वयं सम्भृतरागबन्धः । सहैव कालेन पुरोहितेन समुज्ज्वलां व्योमसभां प्रपेदे ॥६१ ॥ विकीर्णतारा प्रसवोपहारं विराजमानग्रहरत्नदीपम् । विभावरीचन्द्रमसोविरेजे वैवाहिक मण्डपमन्तरिक्षम् ॥ ६२॥ क्वचिद्गुरुः क्वापि कविः सभायां क्वचिद्बुधः क्वापि च पार्थिवाद्याः। समन्ततः साधुकृतोपचारा सेवामतन्वन्त चिराय राज्ञः ॥ ६३॥ तिरस्करिण्यामुभयोधृतायां मध्येसभं सान्द्रतमिस्रमय्याम् । अपाकृतायामभिलाषपूर्वमन्योन्यमालोक्य ननन्दतुस्तौ ॥६४॥ सान्ध्यांशुवह्नौ समयानुकूलं विकीर्णतारानवलाजमुष्टी। वितेनतुर्विश्वजनाभिनन्द्यौ विभावरीचन्द्रमसौ विवाहम् ॥६५॥ इत्येवमासाद्य निशीथिनी तामिन्धानतेजःप्रसरः कलावान् । निरङ्कुशानन्दकरो जनानां नेत्रोत्स्वं निर्भरमाततान ॥ ६६ ॥ सन्ताप्य लोकं सकलं करैः स्वैः पपात भास्वानिति पापभीरुः। सन्मार्गवर्ती स करैरतीक्ष्णैः स्मस्तमानन्दयति स्म चन्द्रः ॥६॥ कथं नु वक्ष्यामि कलासु तस्य पल्सुमहत्पाटवमौषधीनाम् । सर्वज्ञनामा स शिवोऽपि येन सदा कलामस्य दधाति मूर्ना॥६८॥ दक्षात्मजा दीव्यदुदाररूपा साक्षात्सगर्भा शिववल्लभायाः। तस्यानुरूपाऽजनि धर्मपत्नी रोहिण्यभिख्या रुचिराऽपरा च॥६९।। कुमुदतीनां कुलयोषितां मे तापप्रदास्तु तपनस्य भार्या । इति प्रकुप्यन्नयमिन्दुराततॊ पादाहतैः पङ्कजिनीमकार्षीत् ॥७॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy