SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (७) समन्ततो व्योमनि सञ्चरन्तः सायं विहङ्गाः स्वनिवासलोलाः । सन्धिं तयोः कर्तुमिव प्रवृत्ताः महाजना मध्यगता इवासन॥३२॥ काकाचरन्तः कतिचिनभोऽन्ते तयोद्वयोरन्तर एव विश्वम् । ग्रहीतुकामैः कितवैस्तमोभिः समीक्षणायेव चरा विमुक्ताः ॥३३॥ चन्द्रस्य भानोश्च तदाभिमुख्यात्समन्ततःकेऽपि कराश्चरन्तः । परस्परं हन्तुमथोत्थिताभ्यां शरा विमुक्ता इव शातशाताः।।३४॥ विचेष्टितव्याकुलराजहंसं विभिन्नचक्रं व्यथमानकोशम् । बलं समाक्रम्य विकर्तनस्य संकोचयामास सहस्रपत्रम् ॥३५॥ संरम्भभीताः शशलाञ्छनस्य संत्यज्य कान्तामपि चक्रवाकाः। चमूचरास्त्यक्तसहस्रपत्रकोशा ययुः क्वाप्यरुणस्य कोशाः॥३६।। मृगाङ्कमुक्तैर्विशिर्मयूखैर्विकर्तनस्याशु विभिन्नमूर्तेः । आरञ्जितेवास्रपरम्पराभिः पूर्वेतरा पुष्करभूमिरासीत् ॥३७॥ शशाङ्कमुक्तैःशतशो निशातर्वाणविभिन्ना इव भानुजालैः। शनैः शनैः सारसबान्धवस्य खजा बभूवुनिकराः कराणाम्॥३८॥ तेजोनिधिस्तीव्रकरोद्धतोऽपि स्थातुं न शक्तोऽजनि तत्पुरस्तात् । काले नियत्या कलितानुकूल्ये कः कं न शत्रु कलयेदधस्तात् ॥३९॥ संत्यज्य राज्यं सकलं नभोऽन्तं विच्छायतामेन्य विशेषशोच्यः । स दीधितीभिः सह सुन्दरीभिः समाप भानुश्चरमाद्रिदुर्गम् ॥४०॥ सतां ध्रुवं सारसमुद्यतानां सम्पद्विपत्योः सदृशेव रीतिः । यदस्तमेत्याप्युदयस्थकल्पं प्रकाशमर्कः प्रकटीचकारः ॥४१॥ वितन्वते विप्रतिपत्तिमार्या विपद्गते नैव विभौ कृतज्ञाः । द्विना यदक दधदर्घ्यहस्ता ववन्दिरे सादरमस्तभाजम् ।। ४२ ॥ पराजितः पङ्कजबन्धुरेषः पत्या रजन्याः परिहीणतेजाः । समुद्र एवापतितुं चकाङ्क्ष पराभिभूतेर्मरणं हि मान्यम् ॥४३॥ विजित्य चन्द्रं पुनराधिपत्यं प्रभाकरः प्राप्तुमुदूढकामः । ततान शैलाभृगुपातमुच्चैः मानी स्पृहां वैरिजयाय धत्ते ॥४४॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy