________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अहम्
:श्रीहेमचन्द्राचार्यग्रन्थावली.
मण्डनग्रन्थाङ्कः
श्रीचन्द्रविजयप्रबन्धः
कदाचिदाप्तैः कविभिः समेतो वाचांनिधिर्मण्डनमन्त्रिराजः । सायं दिने सौधगृहाङ्गणस्थः साहित्यगोष्ठी सरसामकार्षीत् ॥१॥ -सभामिवालोकयितुं तदीयां कलानिधिः कौशलशालिनी ताम् । कृताभिलाषः किल गन्तुमैच्छत्समुन्नतं पूर्वमहीध्रसौधम् ॥ २॥ ततो दररस्ततमिस्रकेशा प्रवृद्धसत्त्वा प्रमदेव भूयः । अन्तर्वहन्ती हरिणाङ्कबिम्बं पौरन्दरी पाण्डुमुखी दिशाऽऽसीत्।।३।। सद्भिः सनाथीकृतमभ्ररङ्गं संप्राप्स्यतश्चन्द्रमसो नटस्य । तिरस्करिण्या धृत एव मध्ये पुरः स्फुरन्त्या प्रभया बभासे ॥४॥ माविबभूव प्रथमाब्धिगर्भात् प्रालेयभानोः प्रथमो मयूखः । दिग्योषितो दर्शितपूर्वशैलकुचश्रियः क्षौमदशामकर्षः (कार्षीत)॥५॥ चन्द्रः कलामात्रतया समुद्यन्याचीदिशो भालरुचिं व्यतानीत् । काचित्पुनस्तत्र कलङ्करेखा कस्तूरिकाचित्रकतामयासीत् ॥६॥ कयाप्यराजत्कलया सुधांशोः पूर्वोत्थया पुष्करभागलक्ष्मीः ।। प्रदोषकालप्रियसङ्गमेन नवोदितेनेव नखक्षतेन ॥ ७॥ अशङ्कयतैतत्कलयाभिवीक्ष्यं बिम्बं विधो सुरदीप्तिरेखम् । जनैर्जगत्सर्वमिदं जिगीषोराकर्णकृष्टं धनुरात्मयोनेः ॥ ८॥ दुवाति यां यां दिवसेष्ववस्थां पक्षे सिते पञ्चदशी दिनान्तम् । वां तामवस्थां सकलामयासीदुयन्नुडूनामुदधेरधीशः ॥९॥ गोत्तरश्री रमणो रजन्याः शनैः शनैरुढसमग्रबिम्बः ।
For Private and Personal Use Only