________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २६ ) श्रीचम्पूमण्डनम्. गत्कारधारिणी परिमललुब्धेन्दिन्दिरसुन्दरदामरमणीयतामबकम्बयति। अपिचअस्या दृष्टिरनञ्जनापि मधुपश्रेणीसमैणीदशः
कण्ठे मौक्तिकमालिका जनदृगान्दोलाय दोलायते । मालप्तिः सुमनोहरा मधुलसत्सङ्गीतभृङ्गीम्वनिः
मूर्तिः सन्नतिशालिनी स्मरधनुर्वल्लीव सल्लीलया ॥१॥ इत्यगण्यलावण्यचन्द्रोदयभूषणां क्षणदामिव राजिमति संवर्ण्य साऽवरोधवधूचकोरी विरराम । अन्यच
तमेव देवकीसूनुः कन्यामन्यां जगत्रयात् ।
नेमये समये तस्मिन्नुग्रसेनमथार्थयत् ॥ १ ॥ अपि च
प्रार्थनां नान्यथा चक्रे चक्रपाणेः कृपानिधेः ।
उग्रसेनो विनोदाम्बुपूर्णोऽम्बुद इवोल्लसन ॥२॥ विवाहकौतूहललोलचित्तोऽभवत्सुतायास्तदनुग्रसेनः । द्वारावतीं वृष्णिपतिर्ययौ च प्रमोदसूर्योल्लसदाननाब्जः ॥३॥
अन्यच्च-ततः कन्याविवाहसमये उग्रसेननृपानन्दपूर्णेन्दुमहोदये परममुदितजनतावदनकुमुदवनमुनिद्रमुद्रमभवत्, द्राक् मधुरतरं सरोवरायमाणं मथुरापुरं च । नानाविधविवाहविध्युक्तकर्म निर्माण निपुण रमणीगण सञ्चरणासश्चरणक्षणकङ्कणमञ्जुशिजाननूपुरकलकलभ्रियमाणगर्भमभूत् अन्तःपुरं च । अगण्यपुण्यपुरन्ध्रीसान्द्रधवलध्वनिमङ्गलवाद्यनादगर्जिनप्रासादशैलमालम् , विनोदमोदमाननगराङ्गनाजनारब्धमृदुमृदुमृदन्मृदङ्गलास्योल्लासितराजाङ्गणम्, नानालङ्कारशृङ्गारितचतुरपौरपरम्पराअपरिमलबहलितवीथिकासनाथम् , रसालतरुदलनीलिमविर
For Private and Personal Use Only