________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. ( २५ ) यदुजननयनानन्दश्चन्द्र इव नवोऽभवन्नेमि ॥४॥ अपि च
सवृष्णिना कृष्णेन सह नानाक्रीडनेन क्रीडतस्तस्य प्रचण्डदोर्दण्डमण्डपविश्रान्तसौन्दर्यशौर्यश्रीपरमरमणीयाधारस्य कुमारनेमेविवाहकार्य निष्पादयितुं मुदितमनाः सपदि शिवादेवीं समुद्रविजयराजानमयमाह्वयांचक्रे उपक्रान्तकौतुकश्चक्रपाणिः । शिवादेवीसमुद्रविजययोर्दुतमायातयोस्तयोरपि दर्शनेनानन्दमयो भवति स्म सुस्मितमुखः कृष्णः।। अपि च
दुर्जयगर्वपर्वतायमानसर्वमानवपतिमानविक्रमाखण्डखण्डनाखण्डलोग्रस्य उग्रसेनस्य कन्या राजिमतीति नाम्ना आम्नायशुद्धचारुगुणा वर्ण्यते स्म कयाप्युग्रसेनशुद्धान्तवध्वा ।
तथाहि-कुडमाङ्कपकिलमिवेलातलमस्याश्चरणरागरञ्जितं शृङ्गारितमिव निपतितकोकनददलभङ्गभ्रान्त्या षट्पदमालिकाभिरभिगम्यते, बालिकाभिश्च नम्यते । कनकनूपुरच्छद्मना चरणपाद्वन्द्वंनिषेव्यते, सुवर्णेनाङ्गकान्तिविजितवर्णनास्याः प्रसादमासादयितुम् । अस्या बाहुयुगभ्रूयुगलेन काञ्चनेन्द्रनीलवल्लीद्वयशोमां विभज्य भज्यते । अस्या बिम्बाधरद्वन्द्वबिम्बं विकासिहासधवलिमधबलितवक्षःस्थलतरलेन्द्रनीलहारमभ्यन्तरोद्भिन्नकुसुमसमुहं बालप्रवालयुगलं हसति । सरलः कुन्तलकलापः कालिन्दीजलमिन्दीबरं हसति लोचनश्रीश्च । अस्याः सहासेन वचनविलासेन निर्मलसुधाकल्लोलधवलधाम्ना सह स्पर्द्धमान इन्दुः सुधाबिन्दुयते। अस्याः कोमलकरतलरागमवलोक्य माणिक्यचयः स्वरङ्गमङ्गीकरोति, लज्जामवजानन् तदुपलकुलसहजकाठिन्यम् ।। ...मस्याः स्थलकमलिनीकोमलशरीराया नितम्बंबिम्बनिसम्पमानमेखलेन्द्रनीलमालिका अन्तःकिश्चित्क्वणकिङ्किणीन--
For Private and Personal Use Only