________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचद्राचार्यग्रन्थावली. ( २७ ) म्बिमहानीलशकलललिततोरणमालिफाविराजिराजपथम्, उचितरचितहासगोष्ठीभासमानसानन्दसमानजनरदनचन्द्रिकाकान्तिमण्डलचन्द्रमण्डलितमण्डपतलम् , मण्डपायमानगगनविडम्प्युदण्डमण्डितरुचिरोल्लोचपवनवेल्लत्पल्लवोल्लत्कीलितकलधौतक्षुद्रघण्टिका-- पटुक्वणितपूर्णीकृताधोगायकवांशिकवेणुश्रुतिसंदर्भम् , नीलमणिमाणिक्यमुक्ताफलतोरणमालाकिरणचयरञ्जितमन्दिराजिररचिताभङ्गचारुचतुष्कनिष्कलङ्कभूप्रदेशम् । ___ इति व्यतिकरेऽन्तःपुरे महामहानसमध्येऽध्यक्षसुपकाररचिता विशालकनकशिलातलकण्डितसमिता पिण्डनिर्मितडिण्डीरपाण्डरमण्डकराशयोऽभूवन , तुहिनाचलनिर्मलाः, घृतपुराश्च कर्पूरपरागपाण्डुराश्चन्द्रमण्डलानि विडम्बयन्तोऽन्तरुदारशर्करापूरशुद्धसुधारसाः, लड्डुकाश्चामृतगड्डका इव स्वादुमृदवः सर्वान्नप्रसन्नकलशा इव, मधुशीर्षकशिखरिणीपानकानि जिहारञ्जनानि नानाव्यञ्जनानि च ।
किश्च-एतस्मिन्नन्तरे वरागमनतरलमनस्कः स्फुरल्लोचनाम्भोजस्तु भोजयामासोग्रसेनो व्यग्रमनाः अष्टवान् सकलसामग्र्याय्यमतिविधिना साधुनाऽऽत्मवर्येण सह विहितकुलधर्मारम्भः शुभवेलायाम् ।
अन्यच्च-तत्र विचित्रसद्दकमोदकादनमोदमानाः, उत्फुल्लोदरगल्लाः, कल्याणकथाः कथयन्तः सन्तः सन्तोषमापुः । केचिदकष्टं घृतान्तर्घष्ठजरितलड्डूकचूर्णान्यदन्तः, दन्तोत्पीडितसकिसर्पत्सर्पिष्पवाहा घृतवाहा इव रेजुः । कासांचिदवरोधवधूनां मेखला अपि न ननन्दुः शिञ्जितानि विस्मृता इवोदररुद्धावकाशाः। अपि चहेमस्तम्भिनि मण्डपे मरुबकमाचीनपीनद्युतो
कर्पूरागरुपुष्पसौरभमिलभृङ्गौघतूर्यध्वनौ ।
For Private and Personal Use Only