________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
'वर्णकादिकं च गृहीत्वा, बहिर्गत्वा भट्टारिकागृहे तत्कालीद्वयं तक्षित्वा रम्यमकार्षीत । तावत् तत्र केपि । तस्करा मञ्जूषामेको तत्र मुक्त्वा रक्षपालं च मुक्त्वा पुनः पुरमध्यं गताः । रक्षपाल एव मञ्जूषातालकम् उद्घाटयितुं प्रवृत्तः, परं नोद्घटते । तदा कुमारेण चौरसंज्ञा कृता । तेन आहूतः सोऽपि तस्य मिलितः, तालकमुद्घाटितं च । रक्षपालेन सारं वस्तु निष्काश्य पोट्टलके बद्धवा प्रोक्तम्-'हे मित्र ! यद्यहं पोट्टलकं गृहीत्वा यास्यामि, यदि च ते तस्करा मम पृष्ठं करिष्यन्ति तदा मां हत्वा सर्व ग्रहीष्यन्ति । किमपि दशेय स्थानं यत्र कियती वेलां सुखेन तिष्ठामि । तेषु चौरेषु च गतेषु अहमपि यास्यामि'। इत्युक्ते कुमारेण देवकुलस्य पद्मशिलामुत्पाटय पोट्टलकयुक्तश्चौरी मध्ये क्षिप्तः । शिला तथैव कृता । कुमारः प्रत्यासन्नवटकोटरे प्रविष्टः । तत्र देवताहृतं स्वीयं वस्त्राभरणादिकं दृष्टम् । तेन आश्चर्य विभ्रता सर्व संगृहीतम् । तत्र च मलयसुन्दरीं समागच्छन्तीं दृष्ट्वा स वटकोटराद् निर्गत्य तस्या मिलितः । तया चोक्तम्- कनकवती त्वां पतिमिच्छन्ती समेति' । कुमारेणोक्तम्-'तन्मुखमपि द्रष्टुं न युक्तं, परं स्वस्वरूपं कथय' । इत्युक्ते कुमारी प्राह-" मया तवादेशेन पुरमध्ये मगधागृहं पृच्छन्त्या कापि देवकुले स्थिता मगधा दृष्टा । केनाप्युक्तम्-'सेयं मगधा, परं केनापि धूर्तेन सङ्कटे पातिताऽस्ति' । मया समीपे गत्वा प्रोक्तम्- भद्रे ! कि ते सङ्कटम् ?' । तयोक्तम्-" श्रृणु, निजगृहाङ्गणस्थया एष पुमान् मया हास्येन प्रोक्तः- ममाङ्गं दुःखयति, क्षणं संवाहय,
गद्यबद्धश्री मलयसुन्दरीकथा ॥
१. हिगुल-चन्दनादिकम् ।।
For Private And Personal use only