SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir गद्यबद्धश्री मलयसुन्दरी कथा ॥ ॥ २८ ॥ “सूरपालसुतः शेषशोभा धत्ते महाबलः। समस्तान् भूभुजो जित्वा सत्यां कुर्वन्निजाभिधाम् ॥१॥ ___राजा तच्छ्रुत्वा चमत्कृतो मन्त्रिणं वभाषे-'किमेतद् घटते ?' । तेनोक्तम्-'हे प्रभो ! कुलदेवीप्रसादात् पुण्यप्रभावाच्च सत्यम् असम्भाव्यमपि भवति । ततो ज्ञाततत्स्वरूपेण राज्ञा सर्वेऽपि नृपाः सम्बोध्य युद्धान्नि. वारिताः । राजकुमार कुमारी च गृहीत्वा महोत्सवेन पुरं प्रविवेश । ततस्तयोः पाणिग्रहणमभूत् । अथ कुमारस्तया सह वासं भेजे । सोऽयं राजा कुमारपाव समेत्य तत्स्वरूपं पप्रच्छ-'कथम् एकाकी स्वं समेतः । कुमारेणोक्तम्-'देव ! त्वत्कुलदेवीभिरुत्पाटध अहमानीतोऽस्मि । परं मम माता-पितरौ महादुःखं प्राप्ती भविष्यतः । यदि प्रतिपदिनाद् अर्वाग न यास्यामि तदा तौ मरिष्यतः, अतो मां विसर्जय' । राज्ञोक्तम्'तत्पुरम् इतो द्वापष्टियोजनानि स्यात् , अतस्तव प्रयाणयोग्यां करभी सञ्जयामि । रुष्टान् राज्ञोऽपि संमान्य स्वस्वस्थानं प्रेषयामि' । इत्युक्त्वा राजा निर्गतः । अथ कुमारः प्रियापावें प्रकट हारस्वरूपं यावत् पृच्छति तावद् एका महल्लिका तत्र प्राप्ता । कुमारः प्रश्नं कुर्वन् स्थितः । मलयसुन्दर्योक्तम्-'एषा वेगवती मे धात्री रहस्यस्थानम् । ततः सा निविश्य तो प्रति प्राह-'किमिदम् आश्चर्यम् , सत्यं कथ्यताम् । पूर्व कुमारण स्वस्वरूपं कथितं, यावद् द्वौ मिलितौ । ततः कुमारी पुरूपा मगधागृहं प्रति चलिता । कुमारस्तु नैमित्तिकवेषेण निमित्तं कथयित्वा राजानं चितां प्रविशन्तं निवार्य, गृहं नीत्वा, तहसद्रविणेन रात्रौ 'तक्ष्ण उपकरणानि ॥ २८ ॥ १. वर्धकेः-स्वष्टुः । For Private And Personal Use Only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy