________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
श्रीभुवनसुन्दरसूरिकृतटीकायुतं १८ ( भुवन०)-अयं शब्दः एतदन्योन्याभावव्यतिरिक्तेत्यादि । एतदन्योन्याभावव्यतिरिक्ताश्च ते नित्यनिष्ठाश्च । तेषां भावः तत्त्वम् । तेन रहितो यो धर्मः, तस्याधिकरणं शब्दः इत्यर्थः । नित्यनिष्ठा धर्मा आकाशत्वप्रमेयत्वास्तित्वादय एतदन्योन्याभावश्च, तेषु । एतदन्योन्याभावव्यतिरिक्तपदेन एतदन्योन्याभावो नित्यनिष्ठेभ्यो बहिष्कृतः । तस्य च पक्षे साधने व्याघातः स्यात् । अतो यथोक्तविशेषणोपपन्नः एतदन्योन्याभावो दृष्टान्ताथै सर्वत्र ज्ञेयः । नित्यनिष्ठत्वरहितम्च धर्मः शब्दत्वादिः पक्षे ज्ञेयः । व्याख्यानं तु सुगममेव ॥ १८॥
१९ अयं शब्दः शब्दत्वात्यन्ताभावव्यतिरिक्तनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति ॥व्याख्यानं पूर्ववत्। एवं पक्षीकृतशब्दनिष्ठयत्किञ्चिद्धर्मविशेषात्यन्ताभावमुपादाय यावन्तः पक्षीकृतशब्दधर्माः, तावत्यो महाविद्या द्रष्टव्याः॥१९॥
१९ ( भुवन० )-अयं शब्दः शब्दत्वात्यन्ताभावेत्यादि । शब्दत्वस्यात्यन्ताभावः शब्दखात्यन्ताभावः इति तत्पुरुषसमासः कार्यः । शेषं पूर्ववत् ॥ १९॥
२० यदा सामान्यतः अयं शब्दः एतनिष्ठात्यन्ताभावव्यतिरिक्तनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति॥ एतनिष्ठस्य अत्यन्ताभाव इति समासः॥२०॥
२० (भुवन०)-यद्वा सामान्यतः अयं शब्दः एतन्निष्ठात्यन्ताभावेत्यादि । एतन्निष्ठस्य शब्दत्वादेर्धर्मस्य अत्यन्ताभावः एतन्निष्ठात्यन्ताभाव इत्यत्रापि तत्पुरुषसमास एव कर्तव्यः ॥२०॥
__२१ अयं शब्दः शब्दत्वव्यतिरिक्तैतद्धर्मत्वरहितानित्यनिष्ठाधिकरणं मेय. त्वादिति ॥ शब्दत्वव्यतिरिक्तैतद्धर्मेषु शब्दत्वव्यतिरिक्तैतद्धर्मत्वं नाम धर्मः । तद्रहितश्चानेतद्धर्मो वा, शब्दत्वं वा । आद्यः पक्षे व्याहतः । तेन शब्दत्वमनित्यनिष्ठत्वविशेषितं पक्षे सिध्यतीति शब्दानित्यत्वसिद्धिः । एवं पक्षमात्रनिष्ठयत्किश्चिद्धर्मविशेषव्यतिरिक्तत्वमुपादाय यावन्तः पक्षमात्रनिष्ठा धर्मास्तावत्यो महाविद्या द्रष्टव्याः ॥ २१॥
२१ ( भुवन०)-अयं शब्दः शब्दत्वव्यतिरिक्तैतद्धर्मत्वरहितानित्यनिष्ठाधिकरणमिति । शब्दत्वात् व्यतिरिक्ताः भिन्नाः शब्दत्वव्यतिरिक्ताः । ते च ते एतद्धर्माश्च शब्दत्वव्यतिरिक्तैतद्धर्माः । तेषां भावः तत्त्वम् । तेन रहितश्वासौ अनित्यनिष्ठश्च । तदाश्रयः शब्द इति भावः । शब्दत्वव्यति. रिक्तैतद्धर्मत्वरहितोऽनित्यनिष्ठश्च धर्मः शब्दान्यनिष्ठः पक्षीकृतशब्दान्योन्याभावादिदृष्टान्तीभूतेषु सर्वपदार्थेषु पक्षव्यतिरिक्तेषु नित्यानित्येषु ज्ञातव्यः । अनित्ये घटपटादौ च घटत्वपटत्वादिकोऽपि धर्मो ज्ञेयः । आकाशत्वादिकस्तु धर्मोऽनित्यनिष्ठो न भवतीति नित्येषु न तेन साध्यसिद्धिः, किन्तु पक्षान्योन्याभावादिनैव । पक्षे च शब्दत्वव्यतिरिक्तैतद्धमत्वरहितो धर्मः शब्दत्वमेव । तच्च अनित्यनिष्ठं तदैव स्यात् , यदि शब्दोऽनित्यः स्यादित्यत्र शब्दानित्यत्वसिद्धिः । नित्यत्वेनार्थान्तरतापरिहारार्थमनित्यनिष्ठेतिपदम् । प्रमेयत्वादिव्यावृत्त्यर्थमेतद्धर्मत्वरहितेति ग्रहणम् । व्याघातपरिहाराय
१ पूर्ववदेव इति द पुस्तक पाठः ।
For Private And Personal Use Only