SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ महाविद्याविडम्बनम् । १४ या सामान्यतः अयं शब्दः एतनिष्ठात्यंन्ताभावानित्यत्वान्यतराधिकरणं मेयत्वादिति ॥ १४ ॥ १४ ( भुवन०)-यद्वा सामान्यतः इत्यादि । एतन्निष्ठः शब्दत्वश्रावणत्वादिधर्मविशेषः, तस्यात्यन्ताभावः एतनिष्ठात्यन्ताभावः ॥ १४ ॥ १५ अयं शब्दः एतदन्योन्याभावात्यन्ताभावानित्यत्वात्यन्ताभावान्यतररहितः मेयत्वादिति । अत्र चैतन्योन्याभावात्यन्ताभाववति पक्षे तद्रहितत्वं व्याहतमित्यनित्यत्वात्यन्ताभावरहितत्वं पक्षे सिध्यदनित्यत्वमन्तर्भाव्य सिध्यतीत्यनित्यत्वसिद्धिः ॥ १५ ॥ १५ (भुवन० ) अयं शब्दः एतदन्योन्याभावेत्यादि । एतस्य शब्दस्यान्योन्याभावएतदन्योन्याभावः । तस्य अत्यन्ताभावश्च अनित्यत्वात्यन्ताभावश्च नित्यत्वम् । तयोरन्यतरेण रहित इत्यर्थः । अयं शब्दः अनित्यत्वात्यन्ताभावरहित इत्युक्ते नित्येषु साध्यासिद्धिः । तन्निरासाय एतदन्योन्याभावात्यन्ताभावेत्युक्तम् । एवमपि नित्येषु साध्यासिद्धिरेव । तेषामेतदन्योन्याभावात्यन्ताभावरहितत्वेन अनित्यत्वात्यन्ताभावरहितत्वेन चैतद्वयरहितत्वासंभवात् । तेन तेषु साध्यसिद्धयर्थमन्यतरेति गृहीतम् । अत्रानित्यत्वसिद्धिमाह-अत्र चैतदन्योन्याभावात्यन्ताभावेत्यादिना । तदहितत्वमिति । एतदन्योन्याभावात्यन्ताभावरहितत्वमित्यर्थः ॥ १५॥ १६ अयं शब्दः शब्दत्वानित्यत्वात्यन्ताभावान्यतररहितः मेयत्वादिति ॥ एवं पक्षनिष्ठं यं कञ्चन धर्मविशेषमुपादाय यावन्तः पक्षे धर्माः, तावत्यो महाविद्या द्रष्टव्याः॥१६॥ १६ ( भुवन० )-अयं शब्दः शब्दत्वेत्यादि । अनित्यत्वस्य अत्यन्ताभावः अनित्यत्वात्यन्ताभावः नित्यत्वम् । शब्दत्वं चानित्यत्वात्यन्ताभावश्च । तयोरन्यतररहितः तयोरन्यतरात्यन्ताभावाश्रयः इत्यर्थः । ये कञ्चन धर्मविशेषमिति । वाचकत्ववर्णात्मकत्वाकाशविशेषगुणत्वश्रावणवैवि. शिष्टसामान्यवत्त्वादिकमित्यर्थः ॥ १६ ॥ १७ यहा सामान्यतः अयं शब्दः एतन्निष्ठानित्यत्वात्यन्ताभावान्यतररहितः मेयत्वादिति ॥ एतनिष्ठश्चानित्यत्वात्यन्ताभावश्चेति द्वन्द्वसमासः ॥१७॥ १७ ( भुवन० )-यद्वा सामान्यत इत्यादि । सुगमैव पूर्ववत् ॥ १७ ॥ १८ अयं शब्दः एतदन्योन्याभावव्यतिरिक्तनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति ॥ एतदन्योन्याभावव्यतिरिक्तनित्यनिष्ठेषु एतदन्योन्याभावव्यतिरिक्तनित्यनिष्ठत्वं धर्मः । तद्रहितश्चैतदन्योन्याभावो वा स्यात् , नित्यनिष्ठत्वरहितो वा। आद्यः पक्षे व्याहतः । तेन नित्यनिष्ठत्वरहितः पक्षे सिध्यन्ननित्यत्वमन्तर्भाव्य सिध्यतीत्यनित्यत्वसिद्धिः ॥ १८ ॥ १°धर्ममुपा इति ज पुस्तकपाठः । २ 'श्रावणत्वे सति सामान्य इति द पुस्तक पाठः। For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy