SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं तृतीये चेति । तमेव दूषयति-तथा चेति । पक्षवृत्तित्वरहितः पक्षे वर्तते इति व्याघातः । पक्षेतरवृत्तित्वरहितः पक्षवृत्त्यनित्यनिष्ठो धर्मोऽप्रसिद्ध इत्यर्थः । उक्तं दूषणमन्यत्रापि ज्ञेयभित्यति दिशति-एवमिति। तदयुक्तम् । यथा पक्षवृत्तिधर्मेषु पक्षवृत्तित्वं धर्मः, यथा च पक्षेतरवृत्तिधर्मेषु पक्षेतरवृत्तित्वं धर्मः, एवं ये पक्षे तदितरस्मिश्च वर्तन्ते धर्माः तेषु पक्षतदिरवृत्तित्वं नाम धर्मः । तदत्यन्ताभावश्च स्वस्वेतरवृत्तित्वानाक्रान्तत्वम् । तद्रांश्च स्वस्वेतरवृत्तित्वानाक्रान्तः । स चासावनित्यनिष्ठश्च । तेन स्वस्वेतरवृत्तित्वात्यन्ताभाववदनित्यनिष्ठधर्मवान्पक्ष इति प्रतिज्ञार्थः स्यात् । तथा च न व्याघातः । पक्षमात्रवृत्त्यनित्यनिष्ठधर्मसिद्ध्यापि प्रतिज्ञावाक्यार्थस्योपपन्नत्वादिति। न चाप्रसिद्धविशेषणत्वम् । पक्षमात्रनिष्ठधर्मात्यन्ताभावपक्षान्योन्याभावयोः पक्षव्यतिरिक्तनित्यानित्यनिष्ठयोरुक्तरूपयोरुभयवादिसिद्धत्वादिति । एवं महाविद्यान्तरेष्वपि व्याघताप्रसिहविशेषणत्वे परिहरणीये। (आनं०)-समाधत्ते-तदिति । स्ववृत्तित्वेन विशिष्टं स्वेतरवृत्तित्वं, तदत्यन्ताभावः स्वस्वेतर. वृत्तित्वानाक्रान्तत्वमिति न विवक्षितं, किन्तु स्त्रवृत्त्या विशिष्टा स्वेतरवृत्तिः, तदभावः स्वस्वेतरवृत्तित्वं, तदत्यन्ताभावस्तथा विवक्षित इति सदृष्टान्तमाह-तथेति । प्रतिज्ञापर्यवसानमाह-तेनेति । एवमपि व्याघाततादवस्थ्यं विशिष्टवृत्तिनिष्ठधर्मनिषेधस्य विशेषणीभूतस्ववृत्तिनिषेधेन वाच्यत्वादित्य आहतथा चेति। विशेष्यभूतस्वेतरवृत्त्यभावेनापि विशिष्ट वृत्तिनिष्ठधर्मविशेषोपपत्तेरिति हेतुमाह-पक्षमात्रेति । तथा च पक्षस्यानित्यत्वसिद्धिः, अपरथा पक्षमात्रवृत्तेरनित्यनिष्ठधर्मवासिद्धेरिति भावः । पक्षस्यानित्यत्वसिद्धेः प्रागेवंभूतधर्माप्रसिद्धया अप्रसिद्धविशेषणत्वमत्राह-न चेति । (भुवन०)-उक्तदूषणपरिहारमाह-तदयुक्तमिति । स्ववृत्तित्वेन विशिष्टं यत् स्वेतरवृत्तित्वं तदत्यन्ताभावः स्वस्वेतरवृत्तित्वानाक्रान्तत्वमिति न विवक्षितं, किन्तु स्ववृत्त्या विशिष्टा या स्वेतरवृत्तिः तदत्यन्ताभावस्तथा विवक्षित इति । यथेत्यादि दृष्टान्तोपन्यासपूर्वकं दार्टान्तिकमाह-एवं ये पक्षे तदितरस्मिश्चेति । अयमभिप्राय:-केवलं स्ववृत्तित्वानाक्रान्तत्वं केवलं स्वेतरवृत्तित्वानाक्रान्तत्वं च यस्यानित्यवृत्तेधर्मस्य स्यात् स शब्दे न निषिध्यते, किन्तूभयवृत्तिर्निषिध्यते । स च सत्त्वप्रमेयत्वादिः । प्रतिज्ञापर्यवसानमाह-तेन स्वस्वेतरवृत्तित्वात्यन्ताभावेत्यादि । स्वस्वेतरयुगले वृत्तियेषां धर्माणां सत्त्वप्रमेयत्वादीनां तेषु स्वस्वेतरवृत्तित्वं नाम धर्मः, तस्य योऽत्यन्ताभावः, तद्वान् यः कश्चनानित्यनिष्ठो धर्मः श्रावणत्वकृतकत्वादिः, तद्वान्पक्ष इति प्रतिज्ञार्थः स्यादित्यर्थः । तथा च न व्याघातः । अत्र हेतुमाह-पक्षमात्रेति । पक्षमात्रवृत्तियोंऽनित्यनिष्ठो धर्मस्तत्साधनेनापि प्रतिज्ञावाक्यार्थस्योपपन्नत्वादित्यर्थः । अप्रसिद्धविशेषणत्वमप्यत्र पक्षे न स्यादित्याह-न चेति । अत्र हेतुं ब्रूतेपक्षमात्रनिष्ठधर्मात्यन्ताभावेति । पक्षमात्रनिष्ठा ये धर्माः शब्दत्वश्रावणत्वादयः, तेषामत्यन्ताभावश्च १ यथा पक्षे इति ग पुस्तकपाठः । २ हक्तरूपोपपत्नयोरुभ' इति ज पुस्तक पाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy