________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविद्याविडम्बनम् । तरवृत्तित्वानाक्रान्तस्ववृत्त्यनित्यनिष्टधर्मवान्पक्ष इतिप्रतिज्ञार्थः स्यात् । तथा चाप्रसिडविशेषणत्वम् । न हि पक्षेतरवृत्तित्वरहितः पक्षवृत्तिरनित्यनिष्ठो धर्मः पक्षनिष्ठानित्यत्वसिद्धेः पूर्व शक्योऽधिगन्तुम् । तृतीये च स्ववृत्तित्वानाक्रान्तस्वेतरवृत्तित्वानाक्रान्तानित्यनिष्ठधर्मवान्पक्ष इति प्रतिज्ञार्थः स्यात् । तथा च पूर्वोपपादितव्याघाताप्रसिद्धविशेषणत्वे दुर्वारे । एवं महाविद्यान्तरेष्वपि व्याघाताप्रसिद्धविशेषेणत्वादयो द्रष्टव्या इति ।
श्रीमदानन्दपूर्णविरचिता महाविद्याविडम्बनटीका।
( आनं० )- x x *नन्यत्वदूषणं सर्वत्रोहनीयमित्याह-एवमिति ।
(भुवन०)–विडम्बनकारान्तरैराविर्भावितं दूषणं प्रस्तावयति-यत्पुनरिति । स्वस्वेतरत्रत्तित्वानाक्रान्तत्वं नामेति । यः कश्चनानित्यवर्ती धर्मः शब्दे साधयितुमभिप्रेतस्तस्य स्वस्वेतरवृत्तित्वानाक्रान्तत्वं विद्यते । तब स्ववृत्तित्वविशिष्टं यस्वेतरवृत्तित्वं तस्यात्यन्ताभावरूपम् । विशिष्टं च न विशेषणविशेष्याभ्यामन्यदिति । अत्र स्ववृत्तित्वविशिष्टं स्वेतरवृत्तित्वमुक्तम् । तत्र विशिष्टमिति भावप्रधानस्वानिर्देशस्य विशिष्टत्वं ज्ञेयम् । तच्च विशेषणविशेष्यरूपमेव । न ततोऽन्यदित्यर्थः । विशिष्टभावोऽपीति | विशिष्टस्याभावोऽपि विशेषणाभावो वा, विशेष्याभावो वा, उभयोर्विशेषणविशेष्ययोरभावद्वयं वा, न तव्यतिरिक्तः कश्चित् । एतावता विशिष्टाभावस्य सामान्येन विकल्पवयं कृतम् ।
अथ स्ववृत्तित्वविशिष्टत्वेतरवृत्तित्वाभावस्य विकल्पवयं कुरुते-तेन स्ववृत्तीत्यादि । उभयोरभावद्वयं वेति । स्ववृत्तित्वाभावः स्वेतरवृत्तित्वाभावश्चेत्येवमभावद्वयम् । आद्यकल्पे पर्यवसितमर्थमाहआद्य इति । व्याघातेनाद्यकल्पपर्यवसितमर्थ दूषयति-तथा चेति । व्याघातमेवोपपादयति-न हीति । न हि शब्दादिपक्षवृत्तित्वरहितः स्वेतरघटादिवृत्तिरनित्यनिष्ठो धर्मः शब्दादिपक्षे वर्तते इति संभवति । तेन पक्षवृत्तित्वरहितधर्मस्य पक्ष एव साधनात् स्पष्ट एव व्याघातः । अस्तु तर्हि द्वितीयः कल्पः प्रोक्तदूपणाभावादित्यत्राह-द्वितीये चेति । पक्षेतरवृत्तित्वरहितत्वे पक्षवृत्तित्वे च सति अनित्यनिष्ठो यो धर्मस्तद्वान् शब्द इत्येवंरूपे द्वितीयकल्पेऽप्रसिद्धविशेषणत्वमाह-तथा चेति । तदेव स्पष्टयति-न हीति । न हि पक्षीकृतशब्दमात्रवृत्तेरेतच्छब्दत्वादेर्धर्मस्य पक्षेतरवृत्तित्वरहितस्य पक्षानित्यत्वसिद्धेः पूर्वमनित्यवृत्तित्वमधिगन्तुं शक्यम् । अतः पक्षादन्यत्र घटादौ दृष्टान्ते तथाभूतस्य धर्मस्यासंभवादप्रसिद्धविशेषणत्वं नाम पक्षदूषणं भवत्येवेति । तृतीयेऽर्थपर्यवसानमाविष्करोति
१ पक्षसत्यनित्यनिष्ठधर्मः' इति ज पुस्तकपाठः । २ विशेषणत्वे द्रष्टव्ये इति' इति ज पुस्तकपाठः । * आनन्दपूर्णकृता टीका इत आरभ्यैवोपलब्धा । आदर्शपुस्तके अस्मात् पूर्वो भागः नोपलभ्यते ।
For Private And Personal Use Only