________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृ. २२१ १. २३५
१. २४३
2. २८४ पृ. २८९
पृ. ३०४
वादीन्द्रस्तु बाधितत्वात्यन्ताभावोऽबाधितत्वमित्याह । एतेनास्य वन्हिविशेषस्य पूर्व प्रतीतत्वेऽपि एतत्पर्वतनिष्ठतया पूर्वमप्रतीतिरिति वद
न्वादीन्द्रोऽपि विद्रावितः । पक्षधर्मताखण्डनेन महाविद्याजीवनमपि खण्डितं वेदितव्यम् । केवलान्वयिनि व्यापके
प्रवर्तमानो हेतु: पक्षे व्यापकप्रतीत्यपर्यवसानबलादन्वयव्यतिरेकिसाध्यविशेषं वाद्यभिमतं साधयन्हि महाविद्येत्युच्यते । तथा च व्यापकप्रतीत्यपर्यवसानानिरुक्तौ तासामप्यनिरुक्ते: दग्धसारं चेदं वादीन्द्रदावानलेन महाविद्याविपिनमिति ना
स्माभिस्तद्भस्मीभावाय संरभ्यते । महाविद्यानुमानमप्याह-अयं घट इति । तथा निरवयवत्वं स्वस्वेतरवृत्तित्वानधिकरणमूर्तनिष्ठत्वरहितनिष्ठधर्माधिकरणत्वं मे
यत्वात् इत्यादि महाविद्याभिरेवार्थत: सत्प्रतिपक्षता केन वार्यते । ....... एवं हि महाविद्याकोविदाः प्राहुः श्रमादुपरमेऽपि न दोष इति । ...... तदित्यं
स्वपरपक्षाणामेषां पारिप्लवावहा । आरादेव परित्याज्या महाविद्याभिसारिका ॥ एवं प्रत्यक्षं जातौ प्रत्याख्याय कुलार्कपण्डितोन्नीतमनुमानमुद्भावयति दूषयितुं
तीति। वेदान्तकल्पतरु:-( अमलानन्दयतिकृतः ) एवं सर्वा महाविद्यास्तच्छाया वान्ये प्रयोगाः खण्डनीया इति ।
शास्त्रदपेण:-(अमलानन्दयतिकृतः) महाविद्याश्चैतद्विषया वेदान्त कल्पतरौ निर्भसिताः ।
तर्कसंग्रहः-( आनन्दज्ञानविरचितः ) __ आत्मत्वं स्पर्शवदवृत्तिज्ञानवदत्तिजात्यन्यत् जातित्वादिति आभाससमानता इति चेत् । ___ तर्हि सर्वास्वेव महाविद्यासु एवमाभाससमानतासंभवादुच्छिन्नसंकथास्ताः स्युः । न्यायपरिशुद्धिः-( वेङ्कटनाथवेदान्ताचार्यकृता)
अत एव महाविद्यादिरूपकेवलान्वयिनामप्यनवकाशः । अव्याहतसाध्यविपर्ययत्वात् । ___ अन्यथा तेषां सर्वसाधकत्वसामर्थ्याभ्युपगभङ्गप्रसङ्गात् ।।
अत एव हि दृप्तैर्महा विद्यादिरीतीनां प्रयोगोऽभ्युपगम्यत इति । __तत्र यद्यप्यस्मिन्नुदाहरणे लक्षणमसंभवि तथापि महाविद्यादिप्रस्थानेषु केषाञ्चिद्धे___ तूनां साध्यतदभावयोः समानाकारतया संभवं पश्यामः । प्रमाणान्तरबलात्त सिद्धयत: साध्यविशेषस्य विपर्यये बाधकमप्यस्तु, न पुनः महा
विद्यादिहेतुभिरप्रयोजकै: सिद्धयतः । तस्मादव्याप्तभेद एवायमप्रयोजकः । तत्स्वभावानतिलङ्घनाच श्रीमहाविद्या-मान
मनोहर-प्रमाणमञ्जर्यादिपठितवक्रानुमानस्यापि तथात्वम् ।
पृ. १३७
पृ. २२
पृ. १२५
पृ. १९९
पृ. २७२
पृ. २७५
पृ, २७८
For Private And Personal Use Only