________________
Shri Mahavir Jain Aradhana Kendra
q. १३
Extracts from the works of ancient Sanskrit authors who have mentioned Mahavidyá, Kulárkapandita and Vádindra:
पृ. १८०
पृ. १३
ट. २१
पृ. १८०
तत्त्वप्रदीपिकाटीका नयनप्रसादिनी - ( प्रत्यग्रूपभगवत्कृता )
पृ. १८१
33 33
"}
23
www.kobatirth.org
पृ. १८३
पृ. २०६
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वप्रदीपिका - ( चित्सुखी - चित्सुखाचार्य कृता )
अथवा अयं घटः एतद्वयान्यत्वे सति वेद्यत्वानधिकरणान्यः पदार्थत्वात्पटवदित्यादिमहाविद्याप्रयोगैरप्यवेद्यत्वप्रसिद्धिरप्यूहनीया ।
तदेवं जातौ व्यञ्जकप्रमाणयोरसंभवेन आकाशवृत्तिसत्ताव्याप्यजातियोगि क्रियासमानाधिकरणसत्तावान्तरजातियोगि संयोगवद्वृत्तिसत्तावान्तरजातियोगि द्रव्यमित्येवमादीनि जातिपुरस्कारप्रवृत्तानि महाविद्यालक्षणानि निरस्तानि वेदितव्यानि ।
ये तु वक्ररीति रोचयन्ते तान्प्रति महाविद्याभिरपि साध्यप्रसिद्धिं सुलभयति - अथवेति ।
अवीतपदमाचार्यैरकार्यन्वयगोचराः । महा विद्याः पुनर्दिव्या दीव्यन्त्यत्रानिवारितम् || तथाहि विमतं ज्ञानमेतज्ज्ञानविज्ञानविषयत्वे सति वेद्यत्वरहितज्ञानविषयः पदविषयत्वात् घटवदित्यादिमहाविद्याभिरपि समर्थनीयं स्वप्रकाशत्वम् । यानि च महाविद्यानुमानानि द्रव्यत्वजातौ प्रवर्तन्ते तान्यपि परमाणुनिराकरणवादे निवेदनीयदूषणदूषितानीति नोदाहृतानि आचार्येण ।
महाविद्यालक्षणानीति --- महाविद्यारीत्या प्रवृत्तानीत्यर्थः ।
वादन्द्रस्तु एतानि लक्षणानि दूषयित्वा स्वमतेन कार्याश्रयो द्रव्यं, गुणश्रयो द्रव्यमित्यादिलक्षणान्युदाजहार । तानि च तत्रैव निरस्तप्रयाणीति ।
वादीन्द्रस्तु पृथक्त्वानाश्रयः संख्यानाश्रयः संयोगकारणत्वे सति विभागनिरपेक्षकारणत्वरहितो गुण इत्यादि प्रत्यवादीत् । तन्न । संख्यापृथक्त्वाद्याश्रयत्वस्य पूर्वमेवोपवर्णनात् ।
'
यद्वादीन्द्रेण तदुभयान्यतरत्वं नामैकान्योन्याभाववत्त्वे सति इतरान्योन्याभाववत्त्वानधिकरणमिति निर्वचनं कृतं तदप्ययुक्तम् । ' ततो वादीन्द्र दर्पस्ते तदन्यतरतादिषु । अखण्डितनिरुक्त्युत्थः पण्डितंमन्य खण्डितः ॥ तेन जातिद्वारा उपाधिद्वारा वा वादीन्द्रादिभिरुत्प्रेक्षमाणलक्षणान्यपि क्षुण्णानि मन्तव्यानि । अपि च । वादीन्द्रस्येष्टदा तावन्महाविद्या पुलोमजा । सा च सव्यभिचारादिदोषैः संदूषितात्मना || नोपादेया महाविद्यामुद्रिता जातु जातयः । तत्त्वं वापि स्वीययत्ना जिगीषयिषुभिर्बुधैः ॥ शक्यते च सर्वप्रकारविलवो महाविद्याभिः साधयितुं, ग्रन्थगौरवभयान्न प्रपञ्चयते सः ।
......
For Private And Personal Use Only