SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ भुवनसुन्दरसूरिकृतं अथ वादिनः प्रतिभाक्षये जाते सति प्रतिवादिनो वा प्रतिभाक्षये कर्तव्ये महाविद्या प्रयोक्तव्येत्युच्यते भवता । तत्र वादिनस्तव प्रतिभाक्षये जाते एवंविधानुमानवल्लीवितानालम्बनेऽपि प्रति. वादिद्विरदप्रचण्डवाक्शुण्डादण्डाकृष्यमाणस्य कौतस्कुती शुभंयुता । प्रतिवादिनश्च प्रतिभाश्याय महाविद्याविद्याप्रयोगेऽपि प्रतिवादिनि जैने स्याद्वादतनुत्राणपरित्राणे वाचस्पतेरपि प्रवीणकृपाणीगा (?) जर्जरीभवन्ति । दूरे भवन्ति भवन्महाविद्याकोमलकमलनालप्रयोगाः । न हि कपोलपालीपरिस्रवन्मदधारादुर्धरसिन्धुरयुवा हटैरपि तन्तुप्रयोगः रोर्बु पार्यते । ततश्च असंभाव्येऽपि विद्यात्वे महाविद्येति यत्कृतम् । नामैतस्या अपार्थ तन्मनुजो देवराजवत् ॥ ६॥ महाविद्याप्रयोगाणां क्षेपणाय विचक्षणैः । सेव्यं लघुमहाविद्याविडम्बनमिदं सदा ॥ ७ ॥ सुपर्वाभमिदं यस्य कण्ठपीठे लुठिष्यति । सर्पिण्योऽमूर्महाविद्या न स्फुरिष्यन्ति तत्पुरः ॥ ८ ॥ श्रीसोमसुन्दरगुरोः शिष्यः श्रीभुवनसुन्दराचार्यः । कृतवानेतत्प्राज्ञप्रज्ञावृद्धयै विजयदायी ॥ ९ ॥ इति श्रीभुवनसुन्दराचार्यविरचितं लघुमहाविद्याविडम्बनं समाप्तम् ॥ For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy