________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ परिशिष्टम् श्रीभुवनसुन्दरसूरिविरचितं लघुमहाविद्याविडम्बनम् ।
स्याद्वादवादप्रबलप्रणाद
प्रणष्टदुर्वादिमदद्विपेन्द्रा। गी:सिंहका यस्य विभाति देवः
__स वर्धमानः श्रियमातनोतु ॥ १ ॥ इह हि केऽपि दुराहकारप्राग्भारपूरिताः श्रीसर्वज्ञोक्तहेयोपादेयविचारचातुरीदूरिताः सकलस्वाभीष्टवस्तुसाधनाय परपक्षनिषेधाय च स्वकपोलकल्पितान्येवंविधान्यनुमानानि प्रकटयन्ति । तथाहि-आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । अत्र पराहकारप्राग्भारतिरस्कारायोपक्रम्यते ।
हहो वादिन, किमेतदनुमानम् । महाविद्यासत्कमिति चेत् । मैवम् । विद्यात्वमपि सावद्यस्य अस्यानुमानस्य विचार्यमाणं न संजाघटीति , दूरेऽस्तु हेत्वाभासः । केवलान्वयित्वेन व्यतिरेकव्याप्रभावात् । तथा साध्यमत्र अनित्यत्वं परमार्थतः । ततो यद्यदनित्यत्वं तत्तदश्रावणं, यथा घटपटादयः इति साध्यव्यापकश्यायमुपाधिः । शब्दस्य चानित्यत्वमद्यापि विवादास्पदीभूतम् । तस्मात्तेन व्यभिचाराभावात्सोपाधिरयं हेतुः ।
अथ अत्रानित्यत्वं साध्यं न भवति, किन्तु शब्देतरानित्यनित्येत्यादिकम् । तस्य चोपाधिना व्याप्तिास्ति । शब्दत्वेन व्यभिचारादिति नायमुपाधिरिति चेत् । मैवम् । अस्य हनूमल्लोललाङ्गललम्बस्यापि अनित्ये एव विश्रामात् । साध्यं च तदेव यद्विप्रतिपन्न प्रति पक्षे मेयत्वेन साधयितुमभिप्रेतम् । तत्तु अनित्यत्वमेव ।
अथ च विरुद्धतापिशाचीजठरपिठरीप्रक्षिप्तोऽयं हेत्वाभासः । यतोऽत्र साध्यमनित्यत्वम् । तद्विरुद्धं च नित्यत्वम् । तदपि चानेन साधयितुं शक्यते एव । तथाहि-घटः शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् ।
अपरं च अनैकान्तिकत्वदुर्धरसिन्धुरकरप्रहारविधुरोऽप्ययं हेतुर्मेयत्वादिः । तथा हि-महाविद्यासाध्ये महाविद्यासाध्यं विद्यते नवा। विद्यते चेत्, आत्माश्रयः । नो चेत्तर्हिमहाविद्यासाध्ये मेयत्वहेतोर्वर्तनात् महाविद्यासाध्यस्य चावर्तनात् , तस्यैव विपक्षत्वेन अनैकान्तिकः एव अयं हेतुः । तदेवं,
दोषत्रयत्रिपथगातरङ्गप्लाविते मुहुः ।।
हेतुतृणे विलग्नोऽपि वादिन् मङ्ख्यसि निश्चितम् ॥ २॥ किञ्चेयं महाविद्या केवलान्वृयिव्याप्तिजीवितव्या । सैव चतुरचेतोभिश्चिन्त्यमाना नोपपद्यते । तथाहि-यद्यत्प्रमेयं तत्तदनित्यं दृष्टमिति नियमो नास्ति । आकाशादौ प्रमेयत्वेऽपि नित्यत्वात् ।
१ विद्यत्वं इति प पुस्तकमाठः ।
For Private And Personal Use Only