SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० ३ महाविद्याविडम्बनम् । हेतु: । घटात्मादयो हि स्वान्योन्याभावान्यः प्राक्प्रध्वंसत्वरहितश्चाभावः पक्षनिष्ठान्योन्याभावः, प्रतियोगित्वधर्मादन्येऽपि भवन्ति तद्धर्मवन्तश्चेति तेषां सपक्षता । व्यावृत्त्यानि स्पष्टानि । अनेनानुमानेन महाविद्या साध्यस्य अत्यन्ताभावप्रतियोगित्वं प्रादशति साध्यप्रसिद्धिः । एवंविधार्थान्तरतेति । ये तु महाविद्यासाध्यस्य नित्यत्वात्प्राक्प्रध्वंसाभावौ न मन्यन्ते तेषामेवंविधार्थान्तरता न स्यादिति तान्प्रति तत्प्राक्प्रध्वंसाभाववत्त्वरहितेति विशेषणं नोपादेयमेवेत्यर्थः । एवमिति । त्वत्साध्यं अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहिताधिकरणं अत्यन्ताभावप्रतियोगित्वव्यतिरिक्तैतन्निष्ठत्वरहितान्यत्वात्, घटवत् । अत्यन्ताभावप्रतियोगित्वव्यतिरिक्ताः ये एतस्मिन्पक्षीकृते त्वत्साध्ये निष्टाः धर्मास्त्वत्साध्यत्वादयः, तत्त्वेन रहितो धर्मोऽनेतन्निष्ठो वा अत्यन्ताभावप्रतियोगित्वं ar | आद्य: पक्षे व्याहतः, सपक्षे च प्रयोजक: । द्वितीयस्तु पक्षे सिध्यन्नत्यन्ताभावप्रतियोगी पक्ष इति साधयतीत्यादिभिरनुमानान्तरैरिति भावः । उक्ते मूलपदमवतार्य व्याचाख्यायते— तदिदमुक्तमित्यादि । उत्पत्तिविनाशरहितः प्राक्प्रध्वंसाभाववत्त्वरहितः । तदन्यत्वमिति । तदन्यत्वं तस्मात्साध्यादन्यत्वमिति हेतुः । या प्रकृतसाध्यसाधकानुमानसाध्यं पक्षीकृतशब्दनिष्ठत्वेन विशेष्य तेनैव सत्प्रतिपक्षत्वं सर्वमहाविद्यानामुद्भावनीयम् । प्रयोगस्तु-पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वान्योन्याभावव्यतिरिक्तप्राक्प्रध्वंसाभावत्वरहितपक्षीकृत शब्दनिष्ठाभावप्रतियोगित्वाश्रयः स्वान्योन्याभावव्यतिरिक्तप्राक्प्रध्वंसाभावत्वरहितपक्षीकृतशब्दनिष्ठा भावप्रतियोगित्वान्यत्वात् ११७ घटवत् इत्यादि । ( भुवन ० ) - धर्मी चेत्यत्र चकारसूचितमर्थमाचष्टे - यद्वेति । प्रकृतं साध्यं सत्प्रतिपक्षानुमानसाध्यं, तस्य साधकमनुमानं साध्यप्रसिद्धिकर्तृ, तस्य साध्यं स्वान्योन्याभावान्येत्यादिकं, पक्षीकृत शब्दनिष्ठत्वेन विशेष्य । अयमर्थः - पूर्वमनुमानद्वयेन कृत्वा महाविद्यासाध्यस्यैतच्छब्देऽत्यन्ताभावः प्रत्यपादि । अत्र चैकेनैव अनुमानेन महाविद्यासाध्यस्य अत्यन्ताभावः एतच्छब्दे प्रतिपाद्यते । तथा च साध्यप्रसिद्धिकर्तृद्वितीयानुमानमपि न विलोक्यत इति तेनैव प्रकृतसाध्यसाधकानुमानेनैव सत्प्रतिपक्षणीयमिति । प्रयोगेणैतदेव विशदयति- पक्षीकृतेति । पक्षीकृतशब्दनिष्ठश्वासौ अभाव | शेषं पूर्ववत् । For Private And Personal Use Only शिवादित्यमिश्रास्तु पूर्वोक्तन्यायेन साध्याभावप्रसिद्धिं कृत्वा, अयं शब्दः एतन्महाविद्या साध्यात्यन्ताभावव्यतिरिक्तस्वनिष्ठत्वरहिताधिकरणं, मेयत्वात् घटवत् इति सत्प्रतिपक्षयन्ति । तन्न । हेतुभेदाभावेन अस्यापि विरोधे एवान्तर्भावात् । तस्मादयं शब्दः एतन्महाविद्यासाध्यात्यन्ताभावव्यतिरिक्तस्वनिष्ठत्वरहिताधिकरणं, तथा स्वस्वेतरवृत्तित्वरहितानित्यत्वात्यन्ताभाववन्निष्ठाधिकरणं, अभिधेयत्वादित्यादिना सत्प्रतिपक्षणीयम् ।
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy