SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ भुवनसुन्दरसूरिकृत टीकायुतं व्यर्थमिति । अतिप्रसङ्गं शङ्कते - साध्येति । यर्हि साध्याभाववद्वृत्तित्वरहितत्वमेव व्याप्यत्वं तर्हि गगनादीनामपि प्रकृतसाध्येन व्याप्यत्वप्रसङ्गः । हेतुमाह - तेषामपीति । तेषामपि गगनादी - नामपि । अनाश्रितेति । न आश्रिता: अनाश्रिताः कस्यापि नाश्रिता इत्यर्थः । यतो गगनादयो नित्यभावा: निरवयवत्वेन स्वावयवानप्यनाश्रिताः एव । तेषां भावोऽनाश्रितत्वं तेन अनाश्रितत्वेन । प्रकृतसाध्यं महाविद्या साध्याभाववत्त्वं तद्भाववान्विपक्षः, तस्य यदाश्रितत्वं तस्य विरहात् । अयमन्त्र तत्त्वार्थः - विपक्षवृत्तिराहित्यस्यैव व्याप्यत्वेऽत्र गगनत्वादिकोऽपि हेतु: प्रसज्येत । गूढाभिप्रायेणानुवदति — एवमस्त्विति । अगृहीतपराभिप्रायः परः शङ्कते - तथा सतीति । तथा सति साध्याभावदाश्रितत्वविरहात्साध्यव्याप्यत्वे गगनादीनां प्रकृतसाध्यं महाविद्या साध्याभाववत्त्वं तस्यानुमापकत्वं ज्ञापकत्वं तत्प्रसञ्जनमिति हृदयम् । अभिप्रायं प्रकटयन्प्रत्याचष्टे- -न । व्याप्यत्वेऽपीति । विपक्षवृत्तिराहित्यात्साध्येन व्याप्यत्वेऽपि तेषां गगनादीनां कस्याप्यनाश्रितत्वेन पक्षस्य शब्दरूपस्य धर्मत्वानुपपत्तेः । पक्षधर्मता च विलोक्यते - ' व्याप्तिपक्षधर्मतावल्लिङ्गमिति वचनात् । तस्मात्पक्षधर्मताभावाद्गगनादीनां न साध्यानुमापकत्वप्रसक्तिरित्यभिप्रायः । एवं च साध्याभाववद्वृत्तित्वरहितत्वमात्रमेव व्याप्यत्वमिति सिद्धम् । तथैवानुवदति -- तदिदमिति । साध्याभाववन्तं ये आश्रितास्तत्त्वरहितैर्विपक्षवृत्तिहीनैरित्यर्थः । एतावता व्यतिरेकव्याप्तिः सूचिता भवति । पक्षीकृत शब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभावाप्रसिद्धेरप्रसिद्धविशेषणतेति चेत् । न । पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वान्योन्याभावव्यतिरिक्तप्राक्प्रध्वंसाभावत्वरहिताभावप्रतियोगित्वाश्रयः स्वान्योन्याभावैव्यतिरिक्तप्राक्प्रध्वंसाभावत्वरहिताभावप्रतियोगित्वान्यत्वात् घटवत् इत्यादिना साध्यप्रसिद्धेः । प्राक्प्रध्वंसाभावाभ्यामधन्तरता निरासार्थं प्रागभावप्रध्वंसाभावत्वरहितग्रहणम् । एवंविधार्थान्तरतानङ्गीकारवादिनं प्रति तु तन्नोपादेयमेव । एवमनुमानान्तरैरपि साध्यप्रसिद्धिर्द्र व्या । तदिदमुक्तं साध्यप्रसिद्धिः पुनरित्यादिना । ते तव । साध्यं स्वभिदान्यः स्वान्योन्याभावान्यः । जन्मनिधनानाक्रान्तः उत्पत्तिविनाशरहितः । भावात् स्फुरन् भेदो यस्य स भावस्फुरद्भेदः अभावः तस्य प्रतियोगि तत्प्रतियोगित्वाक्रान्तं । तत्त्वविरहः तदन्यत्वम् । शेषं सुगमम् । " ( भुवन० ) - पक्षदोषं शङ्कते - पक्षीकृतेति । पक्षीकृतेत्यादिमहाविद्यासाध्यात्यन्ताभावस्य सपक्षेऽप्रसिद्धेरप्रसिद्धविशेषणता पक्षस्येति चेत्, समाधत्ते-न पक्षीकृतेत्यादि । पक्षीकृतेत्यादिमहाविद्यासाध्यं पक्षः, स्वान्योन्याभावव्यतिरिक्तः प्रागभावप्रध्वंसाभावत्वेन रहितश्चाभावोऽर्थादत्यन्ताभावः एव तस्य यत्प्रतियोगित्वं तदाश्रय इति साध्यो धर्मः । इह यत्साध्यं तदन्यत्वादिति १ "भाववति ये आ" इति च छ द पुस्तकपाठः । २ 'भाववव्यति 'इति घ पुस्तकपाठः । ३ ताप रिहाराय प्रा' इति स पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy