SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ ९१ महाविद्याविडम्बनम् । ___यद्वा अनुत्पत्तिः प्रागभावः । स च निराश्रय एव। घटो नोत्पद्यते इत्येव प्रतीतेः । एवं विनाशः प्रध्वंसः । सोऽपि निराश्रय एव । घटो विनष्ट इत्याश्रयानवच्छेदेनैव प्रतीतेः । यस्तु समवायिकारणनिष्ठः कार्योत्पत्तेः प्रागूज़ च इहेदानी घटो नास्तीत्यभावः प्रतीयते, स तूक्तरीत्या अत्यन्ताभाव एवेति । (भुवन०)-परमतप्रसिद्धथा अभावस्वरूपं निरूपयति-यद्वा अनुत्पत्तिरित्यादि । घटादेरनुत्पत्तिः प्रागभावः । अनुत्पत्तेरपि कार्यसमवायिकारणयोराश्रयायिभावाभावादत्यन्ताभावतो न भेद इत्याह-स चेति । आश्रयानवच्छेदेनेति । आश्रयस्यापरिज्ञानेन समवायिकारणसंसर्गमन्तरेणेत्यर्थः । कस्तीत्यन्ताभावोऽत्राह-यस्त्विति । घटादिकार्यस्योत्पत्तौ विनाशे च समवायिकारणं मृत्नादि । 'स्वसमवेतकार्योत्पादकं समवायिकारणमिति तल्लक्षणात् । तत्र यः समवायिकारणनिष्ठः कार्योत्पत्तेः पूर्व पश्चाचेहेदानी घटो नास्तीत्यभावः प्रतीयते, स तूक्ता या पूर्वत्र रीतिस्तया अत्यन्ताभाव एव । ___अथ एतद्धटैतद्भूतलाश्रयायिभावाभावे प्रमाणं प्रवर्तमानं किमभावमात्रं गोचरयति, किंवा एतद्धटैततलाश्रयाश्रयिभावविशेषितमभावम् । आये नाभावविशेषसिद्धिः। द्वितीयेऽपि निष्प्रमाणकविषयं प्रमाणं चेति व्याहतमित्युच्यते । तन्न । आभासप्रतिपन्ने निष्पमाणके तद्भावविशेषस्यैव प्रमाणविषयत्वात् , स्मृते कुम्भादौ तद्भावविशेषस्येव । (भुवन० )-अत्यन्ताभावः प्रमीयते न वा । न चेदसिद्धः, प्रमीयते चेत्तत्र विकल्पद्वयेनाशङ्कते-अथैतद्धटेति । एतद्धटैतद्भुतलयोर्यः आश्रयायिभावस्तदभावे प्रवर्तमानं प्रमाणमभावमानं गोचरयति, किंवा आश्रयाश्रयिभावेन विशेषितमभावम् । आश्रयाश्रयिभावं तदभावं च गोचरयतीत्यर्थः । पक्षद्वयमपि दूषयति-आये इति । एतत्प्रतियोगिकोऽयमभावः इत्येवमभावविशेषस्यासिद्धिः । अभावमात्रस्यैव ग्रहणात् । निष्प्रमाणकेति । निष्प्रमाणकस्याश्रयायिभावादेर्विषयोऽप्रमाणं चेति व्याघातः । यदि निष्प्रमाणकविषयं तर्हि प्रमाणं कथमिति, अत्र प्रतिसमाधत्तेतन्नेति । आभासेन प्रमाणाभासेन प्रतिपन्ने निष्प्रमाणके आश्रयायिभावादौ तदभावविशेषस्यैव प्रमाणविषयत्वात् । अयं भावः । संसर्गादिराभासप्रतिपन्नः संसर्गाभावविशेषश्च प्रमाणप्रतिपन्नः । स्मृते कुम्भादाविति । यथा स्मृते कुम्भादौ मनसि सद्रूपत्वेनाभावात् निष्प्रमाणकेऽपि स्मृतकुम्भाभावविशेषस्य प्रमाणविषयत्वमित्यर्थः । __ अथ निष्पमाणकाभावे किं प्रमाणम् । एतद्धटैतद्भूतलाश्रयायिभावो नास्तीत्यादिप्रत्यक्षमेव । अनुमानं च एतच्चक्षुः एतच्चक्षुर्जन्यप्रामाणिकप्रतियोगिकविषयत्वरहिताभावप्रमाजनकं, चक्षुष्ट्वात् अन्यचक्षुर्वदित्यादिकम् । इत्यलमतिविस्तरेण । १ "विशेषणस्या इति छ पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy