________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भुवनसुन्दरसूरिकृतटीकायुतं ( भुवन०)-" सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ।
पूर्वत्रापरितोषो वा व्याप्तिर्वा विषयान्तरे॥" इति विषयान्तरव्याप्त्यर्थ पक्षान्तरमाह-यद्वा एतदित्यादि । तदुभयव्यतिरिक्तो भूतभाव्येतदाश्रयाश्रयिभावद्वयभिन्नः आश्रयायिभावो न कदापि जातो न भावी यश्च वर्तमानः सोऽपि च । तस्यापि जन्मनोऽतीतत्वेन जातत्वात् । तेन तदुभयव्यतिरिक्तेत्यनेन भूतभाविभवव्यतिरिक्तोऽसन्नेवाश्रयायिभावोऽप्रामाणिक उपात्तः । ततस्तस्याभावोऽत्यन्ताभाव इति पक्षान्तरार्थः। एतस्मादनन्तरोक्तपक्षस्य निषेधमुखरचनावैचित्र्येणैव भेदो, न त्वर्थत इति भावः । कथं ताश्रयाअयिभावस्य प्राक्प्रध्वंसाभावयोर्व्यवस्था इत्यत आह-यः पुनरेतदित्यादि।
अथ यदि इह भूतलेऽयं घटो नास्तीत्यत्र एतद्धटैतद्भूतलयोराश्रयायिभावो निष्पमाणकः प्रतिषिध्यते, तर्हि घटोत्पत्तेः प्रागूध्वं च घटावयवेषु घटो नास्तीत्यत्रापि एतद्धटावयवैतद्धटयोराश्रयायिभाव एव तत्कालीनो निष्पमाणकः प्रतिषिध्यतामिति गतं प्राक्प्रध्वंसाभावाभ्यामित्युच्यते, तत्राप्योमित्येवोत्तरम् । द्विविध एव ह्यभावः, अन्योन्याभावोऽत्यन्ताभावश्चेति । यश्च कार्योत्पत्तिपूर्वक्षणे कार्यसमवायिकारणयोराश्रयाश्रयिभावो निष्पमाणकः, तस्यात्यन्ताभावः प्रागभाव इत्युच्यते । यश्च कार्योत्पत्त्युत्तरक्षणे कार्यसमवायिकारणयोराश्रयायिभावो निष्पमाणकः, तस्यात्यन्ताभावः प्रध्वंस इत्यु. च्यते शास्त्रकारैः, न तु प्राक्प्रध्वंसाभावौ अत्यन्ताभावाद्भिन्नाविति ।
(भुवन० )-अथ परो व्यवस्थाभङ्गं शङ्कते-अथ यदीहेत्यादि । यद्येवंविधः आश्रयाश्र. यिभावो निष्प्रमाणकः सन् प्रतिषिध्यते, तदा अतिप्रसङ्गात्प्राक्प्रध्वंसाभावयोर्व्यवच्छेद एव न स्यादित्याह-तहीत्यादि । घटो यदोत्पन्नो नास्ति तदा मृद्रूपेषु घटावयवेषु यदा घटो विनष्टस्तदा कपालरूपेषु घटावयवेषु च घटो नास्तीत्यत्राप्येतद्धटैतद्भुटावयवयोराश्रयाश्रयिभाव एव तत्कालीनो घटानुत्पादविनाशकालिको भवद्युक्त्या निष्प्रमाणकः सन् प्रतिषिध्यताम् । तस्य च प्रतिषेधे प्रागभावप्रध्वंसाभावावेव प्रतिषिद्धौ स्याताम् । अप्रामाणिकाभावस्य अत्यन्ताभावरूपत्वेन स्वीकारात् । तथाच सति गतमेव प्रागभावप्रध्वंसाभावाभ्यामित्यर्थः । इति पूर्वपक्षिणोक्ते सिद्धान्त्याह-ओमिति । यत्त्वयाभ्यधायि तदेवमेव । एतदेवोपपादयति-द्विविध इत्यादि । अन्योन्याभावात्यन्ताभावरूपौ द्वावेवाभावी शास्त्रकाराणां संमतौ । प्राक्प्रध्वंसाभावौ तु अत्यन्ताभावरूपावेव, न तु भिन्नौ । एतदेव दर्शयति-यश्चेति । घटपटादिकं यत्कार्य तस्योत्पत्तिपूर्वक्षणेऽनुत्पत्तिक्षणे । कार्यसमवायीति । कार्य घटपटादिकं, समवायिकोरणं मृत्तिकातन्त्वादि, तयोर्य आश्रयायिभावोऽसद्भूतत्वान्निष्प्रमाणकस्तस्यात्यन्ताभावः प्रागभाव इति । यश्चेति । कार्यस्य घटादेरुत्पत्त्युत्तरक्षणे विनाशक्षणे कार्यसमवायिकारणयोर्घटमृदादिरूपयोराश्रयायिभावस्यात्यन्ताभावः प्रध्वंस इति ।
१ 'इत्युच्येत, तत्रा इति थं पुस्तकपाठः। २ कारणानि मृत्तिकातन्तुरूपाणि तइति छ. द. पुस्तकपाठः।
For Private And Personal Use Only